पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
औचित्यविचारचर्चा

सद्योमार्जितदाक्षिणात्यतरुणीदन्ताक्दातद्युति-
श्चन्द्रः सुन्दरि दृश्यतामयमितश्चण्डीशचूडामणिः ॥'

अत्रापि चन्द्रमसः शृङ्गारान्तरङ्गैरनङ्गोद्दीपनैः पदैर्निर्वर्तितो वाक्यार्थः सदर्थौचित्यसामर्येनात्यर्थमर्थनीयतां प्राप्तः। न तु यथास्यैव-

'नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः
शश्वत्स्वङ्गमुजंगचन्दनतरौ क्रीडोपधाने श्रियः ।
आलाने जयकुञ्जरस्य सुदृशां कंदर्पदर्पे परं
श्रीदुर्योधनदोष्णि विक्रमपरे लीनं जगन्नन्दतु ॥'

अत्रातिशयपरकर्कशसोत्कर्षसुभटभुजस्तम्भस्यासमुचितेन कुवलयनालतु- लाधिरोपणेन वाक्यार्थः सोपहासतयेव निबद्धः परिज्ञायते । प्रबन्धार्थौचित्यं दर्शयितुमाह-

उचितार्थविशेषेण प्रबन्धार्थः प्रकाश्यते ।
गुणप्रभावभव्येन विभवेनेव सज्जनः ॥ १३ ॥

अम्लानप्रतिभाप्रकर्षोत्प्रेक्षितेन सकलप्रबन्धार्थाप्यायिपीयूषवर्षेण समु- चितार्थविशेषेण महाकाव्यं स्फुरदिव चमत्कारकारितामापद्यते । यथा कालिदासस्य-

'जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुष कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
याञ्चा मोधा वरमधिगुणे नाधमे लब्धकामा ।'

अत्राचेतनस्य चेतनाध्यारोपेण मेघस्य दौत्ययोग्यताधानाय प्रथिवपु-- करावर्तकपर्जन्यवंश्यत्वममात्यप्रकृतिपुरुषत्वं च यदुपन्यस्तं तेन समतप्र- बन्धस्याभिधानतोत्प्रेक्षितेतिवृत्तरुचिरतरस्य निरतिशयमौचित्यमुद्द्योतितम् । यथा वा भवभूते:---- "(नेपथ्ये।)"

योऽयमश्वः पताकेयमथवा वीरघोषणा ।
सतलोकैकवीरस्य दशकण्ठकुलद्विषः ॥.

-