पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
काव्यमाला।


लवः-(सगर्वमिव ।) अहो संतापनान्यक्षराणि । भो भोः, किमक्ष- त्रिया पृथिवी यदेवमुद्भष्यते । (विहस्य ।) आः, किं नाम स्फरन्ति शस्त्राणि । (धनुरारोपयन् ।)

ज्याजिह्वया वलयितोत्कटकोटि दंष्ट्र-
मुद्गारिधोरधनधर्धरघ्षोमेतत् ।
ग्रासप्रसक्तहसदन्तकवक्रयन्त्र-
जृम्भाविडम्बिविकटोदरमस्तु चापम् ॥'

अत्रार्थे रामायणकथातिक्रमेण नूतनोत्प्रेक्षिता रामतनयस्य सहजवि- क्रमानुसारिणी शौर्योत्कर्षभूमिः परप्रतापस्पर्शासहिष्णुता प्रबन्धस्य रसबन्धु- रामौचित्यच्छायां प्रयच्छति ॥ न तु यथा राजशेखरस्य-

'रावण:-यत्पार्वतीहटकचहणप्रवीणे
पाणौ स्थितं पुरभिदः शरवां सहस्रम् ।
गीर्वाणसारकणनिर्मितगात्रमत्र
तन्मैथिलीक्रयधनं धनुराविरस्तु ।

जनक:-आविरस्तु सममगर्भसंभवया सीतया ।'

अत्र 'आविरस्तु समं सीतया' इति जनकराजेन यदुच्यते तेनास्य पि- शिताशनाय तनयाप्रतिपादनमभिमतमिवोपलक्ष्यते । न चैतद्विभः कथं भक्ष्यभूता कुसुमकोमलाङ्गी पुरुषादाय प्रतिपाद्यते । इत्यनौचित्येन प्रसिद्धेन वृत्तवैपरीत्यं परं हृदयविसंवादमादधाति । यथा वा कालिदासस्य---

'ऊरुमूलनखमार्गपङ्क्तिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस संयम कुर्वतीं प्रियतमामवारयत् ।।'

अत्राम्बिकासंभोगवर्णने पामरनारीसमुचितनिर्लज्जसज्जेनस्वराजिविराजि- तोरुमूलहृतविलोचनत्वं त्रिलोचनस्य भगवतस्त्रिजयदुरोर्यदुक्तं तेनानौचि- त्यमेव परं प्रबन्धार्थः पुष्णाति ।