पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
वक्रोक्तिपञ्चाशिका ।

 
दृष्टिस्ते शिखिना विभाति घटिता दृष्टौ न बर्हीं कचि-
द्वक्रोक्तिर्भवतो नितान्तदयिता सत्यं ममान्तो गतः ।
न ब्रह्मादिभिरप्यपारवपुषः किं शब्दशून्यान्विभो
पुष्णासीति हतोत्तरं विदधती शंभु शिवा पातु वः ॥ २७ ॥

शिखी वह्निः, मयूरश्च । नितान्तमत्यर्थं दयिता नितान्तदयिता । अपरत्रानितान्त नेतो लब्धोऽन्तो यस्य तस्यामन्त्रणं हे अलभ्यावसान । वक्रोतिर्भवतो दयितेति । अपारव- पुषः पाररहितदेहस्य । अनन्तदेहस्येति यावत् । अपगत आरवः शब्दो येषां तानपगता- रवान्युष्णातीति यस्तस्यापारवपुषः ।

 
तेनैवं त्रिदशेश मां न कुरुषे वश्या यतोऽहं तव
प्राप्ता प्रीतिमनुत्तमा प्रियतमेवश्याय[१]प्रीतिः कुतः ।
मैवं ब्रूहि निगद्यतेऽत्र न निशातोयं निशातः स कः
शंसन्वक्रमिति क्षमाधरसुतां त्र्यक्षः शिवं वः क्रियात् ॥ २८ ॥

वश्या यतो वशगता यस्मात् । उत्तरे त्वकारप्रश्लेषेऽवश्यायतो निशाज़लात्प्रीतिः कुतः। निशातोयं रात्रिजलम् , अयं च निशातस्तीक्ष्णः ॥

 
कृत्वा त्वां पणवञ्चितं नहि मया द्यूतेन न प्रीयते
नैवाहं पणवः कृशोदरि चितः शक्यो विधातुं त्वया ।
किं वादित्रविवक्षयात्र दयिते को वादिनस्त्रायते
सूक्त्या निर्जितशैलराजसुत इत्यव्याज्जगद्धूर्जटिः ॥ २९ ॥

पणेन वञ्चितं रहितम्, पणवं पटहं चितं संभूतं च । वादित्रं वाद्यभाण्डम् , यश्च वादि- नस्त्रायते स वादित्रस्तं च ॥

 
आद्यूनोऽसि सभस्मकः सुरभिषकश्चिन्न किं पृच्छ्यते
सत्यं देवि ममास्ति नादिरपरो भूतिस्तु देहस्थिता ।
केनागादि ववात्र भूतिरखनेर्गुप्तिः स्थिता पादयो-
र्दिश्यान्निर्जितपार्वतीक इति वः सूक्त्या श्रियं शंकरः ॥ ३०॥

आधूनो लम्पटः । 'आधूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः । धादिनीनो रहितश्च । भरमको व्याधिविशेषः, सह भस्मना वर्तते यः स सभस्मकः । भूतिर्भस्म, भुवश्च च पृथिव्या ऊतिरवन भूतिः ।



१. 'प्रहेवा' इति पिङ्गलसूत्रात्प्रकारपूर्वाक्षरस्य विकल्पेन गुरुत्वे नात्र च्छन्दोभङ्गाशङ्का ।