पृष्ठम्:काव्यमाला (प्रथमो गुच्छकः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
काव्यमाला।


महयश्च मकराश्च तैराक्रन्तम् । ऋक्षाणां नक्षत्राणामधिपः शशी, ऋक्षाणामच्छगल्ला- चाधिपो जाम्बवान् । ब्रूवे कथयामि । आह्वमतामामच्छ्यताम् । हे नन्दिन् ॥

सद्धर्म्यस्थितिमत्र कूटसकले द्यूते भवानीक्षते
प्रेतावासरतेः कुतो मम सती तन्वङ्गि हर्म्यस्थितिः ।
नागारं कितव ब्रुवेऽनृतमिदं नागोऽस्मि नैव द्रुतं
ब्रूहीति प्रगुणोत्तरोत्तरवचा गौर्या हरः पातु नः ॥ २३ ॥

संश्थासौ धर्म्यो धर्मादनपेतः, सप तद्धर्म्यं प्रासादन्न तत्र स्थितिः साद्धर्म्यस्थितिः कूटानि सकलान्यक्षाणि यत्र तत्र द्युते । नागारमिति । नेति निषेधे, अगारं गृहम् वक्रोक्तौ तु हे नाग सर्प, अरं शीघ्रम् । प्रगुणमर्थान्तरयुकत्वादनुरूममुरारोत्तरं वयो यस्म स प्रगुणोत्तरोत्तरवचाः ॥

सुभ्रूस्त्वं कुपिता ममेति हृदयं पर्याकुलं वर्तते
नैवाहं शव कुत्सितस्तव पिता भार्येति नावैपि किम् ।
ऋक्षाणां पतिरसि नेत्वसादृशं कस्मात्त्वयामश्रितः
पायाद्वो गिरिजां जयन्निति गिरा व्याजिक्षया धूर्जटिः ॥ २४ ॥

हे सुभ्रूः, कुपिता क्रुद्धा, कुत्स्सितः पिता च नावैषि न जानासीति किम् । अवैषी- त्यर्थः । भार्या गृहिणी । वक्रोक्तौ भानां नक्षत्राणामार्य प्रभो भार्या । हे भार्येति ।

ख्याता ते हर वल्लभोडुवरता जानासि का वा प्लवे
सक्ता बालमृगाक्षि मे प्रियतमा पोतो मया नोदितः ।
कार्यं मुग्धमुखि प्लवेन तव किं स्यात्खण्डितेनेति वो
वाचा बश्चितशैलराजतनयश्चन्द्रावतंसोऽवतात् ॥ २५ ॥

वल्लभ उड्डबरः शशी यस्य भावो वल्लभोडुवरता, उडवे सवे या रता सा ते वल्लभा । उड्वशब्दस्य वकारान्तत्वं चिन्त्यम् । ओझ्यान्तता हि प्रसिद्धा नोदित इति न उदित उक्तः । अपरत्र मोदितः सण्डितः ॥

व्यर्थ किं तनुषे दुरोदरमिदं न स्वापतेयं तव
द्यूतं किं न तनोमि तन्व्यकृतिना दुष्प्रापतानास्ति मे ।
नावाप्यस्त्वमसीति सत्यमुदितं नावा न लभ्योऽस्मि किं
त्रासीष्टेति निरुत्तरां गिरिभुवं कुर्वञ्जगध्यम्बकः ॥ २६ ॥

स्वापतेयं धनम्, इयं स्वापता सुप्रापत्वं च । भावाप्मो म मम्मा, नावा तरण्या चाप्यः प्राप्यः ॥