पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला.. रचयतु शिवं वक्षोजन्मद्वयं दुहिणोज्वल- त्कनककलशत्विङ्बीजं तन्निशुम्भरिपोश्चिरम् । तदपि च मुहुर्दशैं दर्शं कपालिकोच्छित- प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यहो ॥ २९ ।। दूरीकरोतु दुरितानि पुरारिदार- वक्षोजशैलमिथुनं जितमन्दराद्रि। येनाभवद्भवमनोऽर्णवतः प्रमोद- पीयूषमत्र हुतमन्मथजीवनाय ॥ ३०॥ अपारां संपत्ति दिशतु कुचरलक्षितिधरः समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् यदीये मूर्ध्निं श्रीगलकरनखालिद्युतिभर- स्फुरद्गङ्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ ३१ ॥ तं कासरासुरविमर्दसमुत्थशोण- शोणार्दशोणितकणं स्तनमम्बिकायाः । वन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं यच्छंमुहृद्यपि कटं स्मरणीबभूव ॥ ३२ ॥ उद्दामद्विपकुम्भदर्पदमनं प्रालेयशैलाङ्गजा- वक्षोजद्वयमत्र मद्रमनिशं पत्तां ममाप्राकृतम् । यच्छ्रीकण्ठकठोरकोटिनखश्रेणीसृणिस्थापन- प्रद्योत.... थुभाजनं समभवत्पुष्पायुधायोधने ॥ ३३ । सौवर्णाचलसानुसंमितकुचद्वन्द्रं भवान्याः स्तुमः सेनानीस्फुरितद्विवेदरसनासंसर्पमञ्चायित्तम् ईशो नैजकरोरुभूषणगणं मत्वेति भूयस्तरा- मादातुं यतते यदीयशिखरप्राम्भारपाणिभ्रमः ॥ ३४ ॥ मालरद्रुफलप्रदर्पशमनं प्रालेयभूमीधर- प्रत्युष्ठयतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् ।