पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीकुचपञ्चाशिका । यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितस्वेदतो यातः सात्त्विकतां हि तत्कज इति ध्यात्वा स्मरार्तोंऽभवत् २२ शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका- काश्मीरत्रितयाबलेपरचनाचातुर्यचर्यावतात् । यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता वेण्येवेत्यवधारयन्निव ममज्जानन्यवृत्तिश्विरम् ॥ २३ ॥ नित्यं पायादपायाज्जगदिह तु शरच्चन्द्रगौरप्रभासौ गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला ! चण्ड्या मे नाथचेतीविहरणनिपुणेतीर्प्यया तत्र बद्धां गङ्गां निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः ॥ २४ ॥ नुमोऽपर्णारामस्थलहृदयकासारतटग- प्रवल्गद्वक्षोजच्छलमिलितचक्रायुगलम् । दरालोकाच्छंभोः शिशिरशशिरेखानखगता स्मरन्ती सापत्यं व्यथयति नितान्तं यदिह सा ॥ २५।। वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाजद्वयं दुन्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् । नित्यास्येन्दुविकासनान्मुकुलितं षडुक्रवक्राम्बुजैः पीतं किं किमितीश्वरस्य मनसो येनामवद्विस्मयः ॥ २६ ॥ मल्लीस्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लस- मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला. यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभव- त्पासायात्सा निखिला हि विष्टपलतां संसारझञ्झानिलात् तुषारगिरिकन्यकाकुचतटीपटीराटवी-. विपाटयतुः कङ्कटोद्भचकठोरतापं हि सा । यदीयदरदर्शनादपि गरप्रलीढो हरः सुखेन धनसारति सररिपुर्महोग्रः शिवः ॥ २८ ॥