पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्यापदेशशतकम् ।

लक्ष्मीं लेभे मुरारिः समलभत सुधा स्वर्गिवर्गः समग्रां तत्तद्वस्तूनि वास्तोष्पतिरपि सहसैरावतादीन्यवाप । पाथोधे त्वत्त एव प्रमथपतिस्थ प्रपदापत्करं य- त्क्ष्वेडं तद्युक्तमेवाजनि जनिदिवसादेष यद्वामदेवः ॥ ८ ॥

पाण्डित्यं त्वयि ताण्डवानि तनुते शेते स नारायण- स्त्वामध्यास्य कृतस्त्वदेककलया शीर्णः प्रलम्बासुरः । धन्योऽसि त्वमनन्त संततमसौ यत्रातिसौख्योदया- द्विश्रामं लभते चराचरभराक्रान्तान्तरा मेदिनी ॥ ९ ॥

माकन्दा मकरन्दबिन्दुविधुरा व्यग्रो गजग्रामणी- रप्यन्तर्मदशोषदोषकलितं चक्रे हरेर्हुकृतैः । त्वं हे कल्पतरो करोषि नहि चेदन्तः कृपाकोमलं कुत्रायं भ्रमरो मनागपि मनो विश्राममालम्बताम् ॥ १० ॥

त्वं तावन्निरुपाधिरम्बुद सुधासारानुकाराः पयो- धारा मुञ्चसि विश्वमोदजननीः सर्वत्र साधारणीः । द्वित्रा एव पतन्ति यत्पुनरमुष्यान्तर्मुखे बिन्दव- स्तद्गाढं जयतीह चातकशिशोर्दुर्दैवदुश्चेष्टितम् ॥ ११ ॥

चापल्यं परिमुञ्च चातकशिशो नैवार्तनादं वृथा कुर्याश्चिन्तय निश्चलेन मनसा धाराधरानन्वहम् । एषां जीवनमुन्नतिं च सहजामन्यार्थमेवासृज- द्धाता त्वं पुनरेतदेकशरणस्तद्धैर्यमालम्ब्यताम् ॥ १२ ॥

नोच्चैर्जल्पति वारिदो यदधुना कासार तन्मा मनो- मालिन्यं समुपैहि हन्त महतां नैसर्गिकोऽयं क्रमः । काले वर्षितुमुद्यतो यदि भवेदेकक्षणार्धं तदा युष्माकं कियती तृषा त्रिजगती पूर्णा भविष्यत्यसौ ॥ १३ ॥

श्रीखण्डाचलगण्डशैलशिखरप्रान्ताटवीसंस्थिताः पाटीरा निभवन्ति शाल्मलिमुखा निःसारभूमीरुहाः ।