पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

श्रीमधुसुदनकविप्रणीतम् । अन्यापदेशशतकम्।

कालीयाहिफणाली ऋमणकरालीभवन्नघक्षाली । गोपालीकरतालीनर्तनशाली पुनातु वनमाली ॥१॥

पद्मालयासारद्दहक्चकोरीपेपीयमानाननचन्द्रबिम्बः । विघ्नौषविध्वंसविधिं विधत्तां राधामयूरीमुदिरो मुकुन्दः ॥ २॥

विद्वन्मनोविनोदाय संद्युक्तिपरिशीलितम् । अन्यापदेशशतकं करोति मधुसूदनः ॥ ३ ॥

मर्यादानुपमैव शीलभमृतोत्पत्त्यैव निर्वर्णितं नैर्मल्यं निजधर्म एव वचसा पारे तु गम्भीरता | किं वाच्यो महिमा तवार्णद रमाप्रेयानपि प्रार्थने तादृक्कौस्तुभभाजनेन भवता वैदग्ध्यमध्यापितः ॥ ४ ॥

हे पीयूषमयूख भूषणमणिः शंभोस्त्वमम्मोनिधेरुत्पन्नोऽसि तवैव दैवतकुलं प्रीणाति साध्वी सुधा । विश्वेषामुपरि स्थितिर्ननु तनुस्ततत्कलाभाजनं किं वाच्या विभुता घराध्वरभुजां राजा त्वमाजानिकः ॥ ५ ॥

उन्मीलन्ति कियन्ति न क्षितितले पुष्पाणि नानाविधान्युन्मीलन्तु परंतु निर्भरमिदं किंचिद्वदामो वयम् | धन्यं जन्म तवैव चम्पकतरो यत्कोरकाणां पुरो हेन्नः श्रीरपि जायतेऽतिमलिना गण्या किमन्या रुचिः ॥ ६ ॥

मामिर्भासितमम्बरं वितिमिरं क्षोणीतलं निर्मितं चक्रे चक्रकुलव्यथाहतिरथादिष्टाः ऋतूनां क्रिया: | अम्भोजानि विकासितानि भवता सद्यो ननु द्योमणे निर्बीजं बत कैरवोपरि परिक्षितं किमन्धं तमः ॥ ७ ॥


१. अस्य श्रीमधुसूदनकवेर्देशो मिथिला, जनकः पद्मनाभः, माता शुभदा, इत्युपान्यलोकात दुजती(उचिती ) कुलम्' इत्यन्तिमश्लोकात्प्रतीयते. कालख तु न निधयः

२. अस्य काव्यस्य पुस्तकमेकमेव १८२२ संवत्सरलिखितं श्रीमता डॉक्टर पीटर्सनेन मथुरात आनीय काव्यमालार्थ दत्तमिति तदाघारेणैवास्थ शोधनमकारीति ज्ञेयम्