पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम् । नत्रिशं चाक्षरमादाय यथा लिखितदर्शनानुसारमचिह्नानि वीक्ष्य वर्णद्वात्रिंशतः कोऽयमुत्पद्यते-- देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ।। १०१ ।। इत्यङ्कश्लोकोऽयमुत्पद्यते । अर्थोऽस्यायम्--एतामेवमुकप्रकारां नुतिं स्तुतिं नोणसुतो नोणाख्यस्य कस्यचित्पुत्र आनन्दवर्धननामा आधाद्विहितवानकार्षीत् । कीदृशीम् । देव्या. वागीश्वर्या स्वप्नोद्गमे निद्राविर्भावे आदिष्टा निरूपिता देवीशतकमिति संज्ञा तया देशिता- नुपमाम् । तल्लक्षणो देशो निदेश आज्ञा विद्यते यस्याः सा देशिनी तस्या भावों देशिता स्थानविशेषः तथा देशितया अविद्यमानान्य प्रशंसामनुत्तमा । देवीस्तोत्रतया सर्वाति: शायिनीमिति भावः ॥ १०१ ॥ हार्दध्वान्तनियन्तृभास्वरवपुः स्वर्वासिनां सर्वतो दुर्वारारिपरिक्षयं विदधती ध्यातैव निर्वाणसूः । देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥१०२॥ (प्रहेलिकेयम्) हे देवि, त्वमिव जगति कापरा भवतीतुल्या त्रिभुवनै कान्वा विद्यते । त्वतसदृशी त्रै-. लोक्येऽपि नान्या विद्यत इत्यर्थः । हार्दध्वान्तं स्वह्रन्मोहस्तस्य नियन्तृ प्रमाथि भास्वरं दीप्तिमद्वपुः शरीरं यस्याः सा तथाविधा । तथा स्वर्वासिना दिवौकसां सर्वतः समन्तात् दुर्वारारिपरिक्षयमजेयशत्रुशमनं विदधती कुर्वाणा । तथा ध्यातैव निर्वाणसूः चिन्तितैव निवाणं मोक्षं सूते प्रयच्छति । अपरं देहार्धे निहिता भवेन (देवेन द्योतनशीलेन) भवेन शिवेन शरीरार्धे नियोजिता स्वशरीरवामभागे स्थापिता । हरेण प्रभुणा कीदृशेन । भुव- नत्राणैकतानात्मना भुवनानां त्रयाणां लोकानां त्राणे रक्षायामेकतान एकरसः सर्वदा - प्रसूत (प्रवृत्त) आत्मा प्रकृतिः स्वभावो यस्य तेन । त्वं च कीदृशी . सत्केसरीन्द्रस्थितिः शोभनसिंहराजे स्थितिवेरस्थानं यस्याः सा ! अथ च त्वमिवापरा जगति का इति प्रश्ने कृते सत्केसरीन्द्रस्थितिरित्युत्तरम् । त्वत्तुल्या का इति पृच्छायां भगवान्नृसिंहमूर्तिरित्युत्तर- दानात्प्रहेलिकेतीयमुच्यते । व्याख्या तु समाना सर्वत्र । केवलं देहार्धे निहिता भवेनेत्य- त्राकारप्रश्लेषो व्याख्यायते। तथा अभवेनाविद्यमानसंसारेणाजेन: भगवता विष्णुना दे- F.. हार्धे शरीरोपरिभागे निहितेत्येतावान्स्तुतिविशेषः । प्रहेलिकेयम् ॥ १०२ ॥ क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु- र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात्