पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। दुर्गे न क्वचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३ ।। (चतुरर्थः) इतिशब्दः पूर्वोक्तप्रकारापेक्षायां वर्तते । भर्तुरमिन्नया पत्युः सदृश्या स्तुत्या नुत्या त्वं भवती विवुधैर्देवैर्मनीषिभिर्वा श्रीरिव लक्ष्मीरिव स्तूयसे नूयसे । अर्थवशाद्विभक्तिव- चनलिङ्गविपरिणाम इति लक्ष्मीर्यथा भर्तुरमिन्नया स्तुत्या स्तूयते तथा त्वं स्तूयस इति । एवममूनि स्तुतिपदानि चतुर्णा भवभवानीकमलाकान्तकमलानां योज्यन्ते । तत्रोपमा. नयोः कमलाकान्तकमलयोस्तावत्स्तुतिप्रकारा व्याख्यायन्ते । हे श्रीः, भवहरानन्दैक- हेतोः संसार(निवर्तक)स्य भगवतो विष्णोरानन्दे चित्ताह्लादने एकहेतो. एकनिमित्तभूते, त्वं भवती सती साधूनां क्लेशोन्माथकरी अविद्याविनाशिनी करीति आनुलोम्ये टचि ङीप् । तथा त्वं जगतां त्रयाणां लोकानां गुरुः प्रधानम्। माता जननी । तथा विभवाः सर्वे समृद्धिगुणाः सकलास्तवानुग्रहाद्भवत्प्रसादाद्भवन्ति संपद्यन्ते । अन्यत् , त्वद्भक्तिपू- ताशयो जनः भवत्सेवापवित्रीकृतमनां लोकः दुर्गे दुर्गतौ न क्वचिदेव न कुत्रचिदेव सी- दति मज्जति । भर्तुरभिन्नया स्तुत्येति तद्भर्तुः पक्षे योजना-हे भवहर संसारनिवर्तक विष्णो, तथा आनन्दैकहेतो, त्वं सतां क्लेशोन्माथे अविद्याविनाशने करी हस्ती । आनन्दैकहेतुत्वा- न्मोक्षप्रद इत्यर्थः । तथा त्वं जगतां गुरुः माता मारकच । त्रिभिः क्रमैरिति भावः । भवन्ति विभवाः सायुज्यादयः सर्वे तत्रानुग्रहात् । दुर्गे संसारबन्धन न' क्वचिदेव सी- दति जनस्वद्भक्तिपूताशयः। उपमेययोरधुना संबन्धः । तत्रभवान्यास्तावत्---सतां क्लेशोन्माथकरी भवः। लोण्मध्य-. मपुरुषेकचचनमेतत् । हे दुर्गे विन्ध्यवासिनि, हरस्यानन्दैकहेतो । शिष्टं श्रीस्तुत्या समानम् । एतद्भर्तुर्गिरिशस्याधुना हे भव हे हर हे आनन्दैकहेतो, त्वं जगतां गुरुः माता हिंसिता । त्रैलोक्यसंहतो रुद्र इत्याम्नायः । मीनातेः कृतात्वस्य तृचि मातेति रूपम् । तवानुग्रहात्सर्वे विभवा अणिमाद्या ऋद्धयों भवन्ति । शिष्टं श्रीपतिस्तुत्या समानमिति । एवमर्थचतुष्टयवाची ॥ १०३ ॥ येनानन्दकथायां त्रिदशानन्दे च ललिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४ ।। अस्याप्ययमर्थः-तेन कविना नोणतनयेनानन्दवर्धनेन एतदेवमुक्तप्रकार स्तोत्रं नवनं भक्त्वा सेवया आरिरार्विषया कृतं दृब्धं रचितम् । कीदृशं स्तोत्रम् । सुदुष्करं - शोभना दुष्कराश्चक्रबन्धादयो यत्र सुष्ठु वा दुष्करं नान्येन केनचित्कर्तुं शक्यमिति । केन कविनेत्याह--येनानन्दकथायां विषमवाणलीलायां निदशानन्देऽर्जुनचरिते च वाणी भारती लालिता विनोंदिता । विषमबाणलीलार्जुनचरितविरचयितुः कवेः कृतिरेतत्स्तोत्र- मिति वाक्यार्थः ।।