पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति- रन्तर्ध्वान्तं हरतु सततं चेतसा चिन्तयामि ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि संततमहं परिपूजयामि । जातीजपाबकुलचम्पककेतकानि नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥ मालतीबकुलहेमपुष्पिकाकाञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलैर्मल्लिकाबकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषा लोडितैः । श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥ रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा दीपितै- र्दीपैर्दीर्घतरान्धकारभिदुरैर्वालार्ककोटिप्रमैः । आताम्रज्वलदुज्वलज्वलनवद्रत्नप्रदीपैः सदा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥ मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताधृतैः सवटकै; सक्षुद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकस्तूरिकासंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यम्बिके ॥ ३० ॥ सापूपसूपदधिदुग्धसिताधृतानि सुस्वादुभक्ष्यपरमान्नपुरःसराणि । १ 'रन्तर्ध्यानं' क. २. 'कुरण्ट' क. ३. 'अम्बुजैश्च कुसुमैश्च' ख. ४. 'जननी धूपं' क ५ 'सायषोद्दीपितैः' क. ६. प्रीभैस्तथा' ख ७, 'कुस्तम्बरीसंस्कृतैः' ख