पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

उच्चैर्भिन्नं जवितमुदधौ हारि नीरं रथस्थे
तस्यास्त्वय्युत्तरति सरितो यादवेन्द्र प्रवाहम् ।
वीक्षिष्यन्ते क्षणमनिमिषो व्योमभाजोऽतिदूरा-
देकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥

तामुत्तीर्णः पुनरधिवसेरीशपौराभिधानं
नानादेशागतजनचयैः पूर्णरम्यापणं तत् ।
यस्याकाशं स्पृशति निवहो वेश्मनामूर्ध्वभागा-
त्पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ५१ ॥

तस्माद्वर्त्मानघ तव कियद्गच्छतो भाति दुर्गं
पङ्काकीर्णं नवतृणचितं तत्र तोयाशयानाम् ।
कुर्वन्नब्दः किल कलुषतां मार्गणैः प्रागरीणां
धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ॥ ५२ ॥

नानारत्नोपचितशिखरश्रेणिरम्यः पुरस्ते
यास्यत्यक्ष्णोर्विषयमचलो मादनो गन्धपूर्वः ।
यं सोत्कण्ठो नवमिव पुनर्वीक्षितुं कान्त हर्षा-
दन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५३ ॥

यस्मिन्पूर्वं किल विरचितां वामभागे भवानीं
देवीं वीक्ष्य त्रिपुरजयिनः स्वेच्छया केलिभाजम् ।
जह्नोः पुत्री तदनु दधतोऽङ्केऽभ्युपेर्ष्यं सपत्नी
शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५४ ॥

आरूढस्य स्फटिकमणिभूश्वेतसानुप्रतापे
यस्मिञ्छैले विमलविलसत्कान्तितोयप्रवाहा ।
संक्रामन्त्या तव घनरुचा छायया स्वर्धुनीव
स्यादस्थानोपगतयमुनासंगमेवाभिरम्या ॥ ५५ ॥

भास्वद्भावन्मणिमयबृहत्तुङ्गशृङ्गाग्रसंस्थाः
संप्रत्युद्यत्परिणतफलश्यामला वामभागे ।

९द्वि० गु०