पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
करुणालहरिः ।


पण्डितराजश्रीजगन्नाथविरचिता

करुणालहरिः ।

विषीदता नाथ विषानलोपमे विषादभूमौ भवसागरे विभो
परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥ १ ॥

भवानलज्वालविलुप्तचेतनः शरण्य तेऽङ्घ्रिं शरणं भयादयाम् ।
विभाव्य भूयोऽपि दयासुधाम्बुधे विधेहि मे नाथ यथा यथेच्छसि ॥ २ ॥

विहाय संसारमहामरुस्थलीमलीकदेहादिमिलन्मरीचिकाम् ।
मनोमृगो मे करुणामृताम्बुधे विगाढुमीश त्वयि गाढमीहते ॥ ३ ॥

त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥ ४ ॥

जगत्त्रयत्राणविधौ धृतव्रतं तवाङ्घ्रिराजीवमपास्य ये जनाः ।
शरण्यमन्यन्मृगयन्ति यान्ति ते नितान्तमीशान कृतान्तदेहलीम् ॥ ५ ॥

रमामुखाम्भोजविकासनक्षमो जगत्त्रयोद्बोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे हरिष्यति त्वन्नयनारुणोदयः ॥ ६ ॥

सुरासुरस्वान्तचकोरचुम्बिता समस्तसंतापचयापनोदिनी ।
महानिशीथे मम मानसे कदा स्फुरिष्यति त्वन्मुखचन्द्रचन्द्रिका ॥ ७ ॥


१. श्रीजगन्नाथपण्डितेन पण्डितराजपदवी दिल्लीप्रभोः शाहजहांतः प्राप्तेति तत्कृत'आसफविलास'नामकग्रन्थोपोद्धाततोऽवगम्यते । यथा-'अथ सकललोकविस्तारविस्तारितमहोपकारपरम्पराधीनमानसेन, प्रतिदिनमुद्यदनवद्यगद्यपद्याद्यनेकविद्याविद्योतितान्तःकरणैः कविभिरुपास्यमानेन, कृतयुगीकृतकलिकालेन, कुमतितृणजालसमाच्छादितवेदवनमार्गविलोकनाय समुद्दीपितसुतर्कदहनज्वालाजालेन, मूर्तिमतेव नव्वाबासफखानमनःप्रसादेन, द्विजकुलसेवाहेवाकिवाङ्मनःकायेन, माथुरकुलसमुद्रेन्दुना, रायमुकुन्देनादिष्टेन, सार्वभौमश्रीशाहजहांप्रसादाधिगतपण्डितराजपदवीविराजितेन, तैलङ्गकुलावतंसेन, पण्डितजगन्नाथेनासफविलासाख्येयमाख्यायिका निरमीयत । सेयमनुग्रहेण सहृदयानामनुदिनमुल्लासिता भवतात'. जगदाभरणकाव्ये पण्डितराजेन वर्णितो' दाराशाहोऽस्यैव शाहजहांमहीपतेऽर्ज्येष्ठः सूनुरासीत्'. २. केषुचित्पुस्तकेषु 'विष्णुलहरिः' इत्यस्य ग्रन्थस्य नाम वर्तते. ३. 'हरे' इति पाठः. ४. 'अपास्यता' इति पाठः. ५. 'तन्नाथ इति पाठः. ६.'ईशं न' इति पाठः. ७. 'धुरंधरम्' इति पाठः, ८. मुनीन्द्रचित्तैकचकोरजीविका' इति पाठः. ९. 'त्वन्नख' इति पाठः,