पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
काव्यमाला ।


सुयौवनापाण्डुरगण्डमण्डलप्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं कदा मदक्ष्णोरतिथीभविष्यति ॥ ८ ॥

सुरापगातुङ्गतरङ्गचालितां सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥ ९ ॥

महाजवाश्छिन्नविवेकरश्मयो मदोद्धता देव मदक्षवाजिनः ।
हरे समासाद्य तवाङ्घ्रिमन्दुरामपास्तवेगा दधतां सुशीलताम् ॥ १० ॥

पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं पतिम् ।
अपास्य तं त्वां निरपत्रपा सती सती मतिर्मे कथमन्यमेष्यति ॥ ११ ॥

न जाग्रता स्वप्नगतेन वा मया समीहितं ते करुणालवादृते ।
गिरं मदीयां यदि वेत्सि तात्त्विकीं तदा जगन्नायक मामुरीकुरु ॥ १२ ॥

अयि दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन्भजसे हा कथमश्मचित्तताम् ॥ १३ ॥

सुमहन्ति जगन्ति बिभ्रतस्तव यो नाविरभून्मनागपि ।
स कथं परमाप्त देहिनां परमाणोर्मम धारणे श्रमः ॥ १४ ॥

नितरां विनयेन पृच्छते सुविचार्योत्तरमत्र यच्छ मे ।
करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्य माम् ॥ १५ ॥

न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥ १६ ॥

अयमत्यधमोऽपि निर्गुणो दयनीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयिता हि चन्दनः ॥ १७ ॥

क्षुधितस्य नहि त्रपास्ति मे प्रतिरथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्क यशस्करं न ते भवदीयोऽपि यदन्यमृच्छति ॥ १८ ॥


१. 'मनोजवाः' इति पाठः. २. 'अलम्' इति पाठः. ३. 'सरस्वती मे' इति पाठः, ४. 'न जाग्रति स्वप्नदशान्तरेऽपि वा परं विजाने तव पादपङ्कजात् । इति स्म सत्यं यदि भाषितं मया क(त)दा जगन्नायक मामुरीकुरु ॥' इति पाठः, ५. 'इति' इति पाठः, ६. 'अनिभालयन्निमम्' इति पाठः. ७. 'परमात्मदेहिनः' इति पाठः, ८. 'दुर्गुणो मदनीयः' इति पाठः, ९, 'नानन्दयतीह' इति पाठः.