पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुवृत्ततिलकम् ।

नखार्दनमतर्दनं दृढमपीडनं पीडनं करोति रतिसंगरे मकरकेतनः कामिनाम् ॥' समासवती यथा मम- 'कचग्रहसमुल्लसत्कमलकोषपीडाजड़- द्विरेफकल्लकूजितानुकृतसीत्कृतालंकृताः । जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ।।' पृथ्वी साकारगम्भीरैरोज:सर्जिभिरक्षरैः । समासग्रन्थियुक्तापि याति प्रत्युत दीर्घताम् ।। २८ ॥ यथा भट्टनारायणस्य- 'महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकंदरः कुतोऽद्य समरोदधेरयमभूतपूर्वः श्रुतः ।।' त्वरातरलविच्छेदैविभाति हरिणी पदैः । मन्थरैर्ग्रन्थिबद्धेव याति निःस्पन्दसङ्गताम् ॥ २९ ॥ तरलपदा यथा दीपकस्य- 'तनुधनहरक्रूरस्तेनोत्कटां विकटाटवीं तरति तरसा शौर्योत्सेकात्वसार्थवशाज्जनः । पुरवरवधूलीलावल्गत्कटाक्षबलाकुले नगरनिकटे पन्थाः पान्थ स्फुटं दुरतिक्रमः ।।' मन्थरैर्यथा भट्टेन्दुराजस्य- 'गुणपरिचयस्तीर्थे वासस्थिरोभयपक्षता वपुरतिदृढं वृत्तं सम्यक्सखे तव किं पुनः । सरति सुमते यस्त्वां पातुं दृशा विनिमेषया बडिश विषमं तस्याक्षेपं करोषि सहासुभिः ॥'