पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपदेशशतकम् । हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः कंसः । मधुरोक्तिभिरनुनीतः साम्ना मूर्खं वशे कुर्यात् ॥ ८॥ भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः । धनदं बबन्ध युद्धे मूढमतिर्नोपदेष्टव्यः ॥ ९॥ विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा । संकटमाप दुरन्तं स्त्रीषु न कुर्वीत विश्वासम् ॥ १०॥ गर्वाद्योद्मुपेतः पौलस्त्यः सपदि कार्तवीर्येण । क्रीडामृग इव बद्धो न बलोदिक्तेन योद्धव्यम् ॥ ११ ॥ संदीपिताग्रपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः । लङ्कां मारुतिरदह द्विपदि विजह्यान्न शूरत्वम् ॥ १२ ॥ रुक्मी छलेन दीव्यन्वलं विजित्याथ परिहसन्नुच्चैः । द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ १३ ।। शकुनिसुयोधनकर्णैर्जितोऽक्षधूतैर्युधिष्ठिरो ब्रूते । निर्वासितः खराष्ट्रात्कितवैः सह नाचरेद्द्यूतम् ॥ १४ ।। मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते । प्रायच्छद्गतशकं दुस्त्यजमप्यर्थिने देयम् ॥ १५ ॥ त्यज पार्थैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् । तदमत्वा क्षयमापत्कर्तव्यं भाषितं सुहृदाम् ॥ १६ ॥ शिशुपालः क्रतुकाले हरिमहं गर्हयन्ननर्होक्त्या । तत्क्षणमियाय नाशं न महान्तं क्वापि गहेत ॥ १७ ॥ अन्यद्विजाय मोहान्नृगो वदान्यो द्विजस्य गां दत्त्वा । सद्योऽभूत्कृकलासो ब्रह्मखं दूरतो विसृजेत् ॥ १८ ॥ सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदारः । दृढमाबबन्ध सख्यं समानदुःखः सखा कार्यः ॥ १९॥

१. बलदेवम्, २. धृतराष्ट्रः, ३. नृगोपाख्यानं महाभारतेऽनुशासनपर्वणि सप्तति- मितेऽध्याये द्रष्टव्यम्. ३ द्वि. गु.