पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् । उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं देहाम्भोधिः स देयान्निरव घिरमृतं दैत्यविद्वेषिणो नः ॥४८॥ दैत्यविद्वेषिणो नारायणस्य स देहाम्भोधिर्नोऽस्मभ्यममृतं कैवल्यं देयात् । त्रिभुव- नगुरुस्त्रैलोक्यपिता ब्रह्मापि यदन्तर्मध्येऽनेका असंख्याता अब्दकोटीः । अनेककोटिसं- वत्सरपर्यन्तमित्यर्थः । भ्रान्वा भ्रान्ता बहुशो विभ्रम्यान्तमवसानं गन्तुं प्राप्तुं न सम- र्थोऽभूदित्यध्याहारः । पुनरन्तप्राप्त्याशाविच्छेदानन्तरं नाभिनालीकनालामर इवोन्म- ज्जन्नपरं त्रिभुवनं तत्सदक्षं निर्ममे । किंलक्षणः । ऊर्जितश्रीः । कथंभूतो नेहाम्भोधिः । निरवधिः॥ मत्स्यः कूर्मो वराहो नरहरिणपतिमिनो जामदग्न्य: काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्की भविष्यन् । विष्णोरंशावतारा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥४९॥ हरिणपतिः सिंहः । नरश्चासौ हरिणपतिश्चेति विग्रहान्नरसिंहः । कंसघाती कृष्णः । मनसिजविजयी मारजित्तपखिवेषो भगवान्बुद्धः । भविष्यन्कलियुगान्ते । अन्यत्स्फु- टम् । विष्णोरेर्तेऽशावताराः । भुवनहितकराः। यतो धर्मसंस्थापनार्थाः । तथा गुरुत- रेण करुणाभारेण खिन्नः खेदं प्राप्तः । परवशीकृत इत्यर्थः । आशयोऽन्तःकरणं येषां ते मां भक्तं पायासुः॥ यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः खार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः । नित्यानन्दं खसंविनिरवधिममृतं खान्तसंक्रान्तबिम्ब- च्छायापत्त्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥५०॥ तन्महस्तेजो नोऽस्मान्सदाव्यात् । यत्मान्मनसा समं वाचोऽपि निवृत्ताः । तदि- दमेवेति बोधयितुमसमर्थाः । किंलक्षणाः । लक्षणा मुख्यवृत्तेर्वृत्त्यन्तरं तामीक्षमाणा आकाङ्क्षमाणाः । कस्मात् । वेदलक्षणवादाः खार्थस्य शक्तिविषयस्यार्थस्यालाभात्परे च तेऽर्थास्तेषां व्यपगमो निरसनं तत्कथनेन श्लाघा येषां ते । किंलक्षणं महः । नित्यानन्दम् । खसंवित्खयं प्रकाशकम् । तथा निरवधिं निरवधिकम् । ककारोऽत्र लुप्तो इष्टव्यः । अमृतमपरिणामि । कूटस्थमित्यर्थः । अपि च यन्महः खान्तमन्तःकरणं तत्र संक्रान्ता बिम्बच्छाया बिम्बाकृतिस्तदापत्त्यापि तावन्मानप्राध्यापि यमिनो यतीन्नित्यं सुखय- त्यानन्दयति ॥ आ पादादा च शीर्ष्णो वपुरिदमनघं वैष्णवं यः खचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्तःप्रमोदः ।