पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अलिवच्छ्यामलं घाम तेजो यस्य तस्य श्रीपतेः सा कुन्तलाली नोऽस्माकमखिलं मङ्गलं प्रदिशतु । या सकलैर्लोकः कुवलयकलिता नीलोत्पलरचिता मालाली माला- परंपरेव । अथवा कालिन्दी यमुना हरशिरःखर्धुनीस्पर्धया महादेवमस्तकस्थगङ्गेयया भगवन्मूर्धानमारुह्य ततो गलति नु । यद्वा सकला चासौ शशिकला शशिप्रकाश- स्तदाकारभ्रान्तियुक्तश्चासौ लोलश्चपलोऽन्तरात्मा मनो यस्यैतादृशो राहुर्वेत्यालोच्यत उत्प्रेक्ष्यते ॥ सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टवरूपा व्याप्तव्योमान्तरालास्तरलरुचिजलारञ्जिताः स्पष्टभासः । देहच्छायोद्गमाभा रिपुवपुरगुरुप्लोषरोषाग्निधूम्याः केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ ४६॥ केशिद्विषः केशिनामकासुरहन्तुर्भगवतः केशा नोऽस्माकं विपुला बहुला ये क्लैशा अविद्यास्मितारागद्वेषाभिनिवेशास्त्र एव पाशास्तेषां प्रकर्षेण नाशं विदधतु । किंलक्षणाः। भगवति प्रसुप्ते सुप्ताकाराः सुप्तस्य भगवत आकार इवाकारो येषां ते । अत एव विबुधै- रपि न दृष्टं स्वरूपं येषां ते तथाविधाः । तथा व्याप्तं व्योमान्तरालं ब्रह्माण्डोदरं यैः। तथा तरलानि चपलानि रुचिमन्त्युज्ज्वलानि च जलानि क्षीरसागरनीराणि तैरासम- न्ताद्रञ्जिताः । स्पष्टभासः । देहस्य श्रीमन्मूर्तेश्छाया कान्तिस्तस्या उद्गम उपरिप्र- चारस्तद्वदाभान्ति ते । रिपूणां वपूंष्येवागुरुस्तस्य प्लोषो दाहस्तस्मिनरोषरूपो योऽग्निस्तस्य धूम्या धूमसमूह इव । एतैर्विशेषणैः केशानां मेघसाम्यं ध्वनिनम् । 'यस्य केशेषु जीमूताः' इति पुराणप्रसिद्ध्या ॥ यत्र प्रत्युप्तरत्नमवरपरिलसद्भूरिरोचिःप्रतान- स्फूर्त्या मूर्तिर्मुरारेद्युमणिशतचितव्योमवहुनिंरीक्ष्या । कुर्वत्पारेपयोधि ज्वलदकृतमहाभाखदौर्वाग्निशङ्कां शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ ४७ ।। तन्मुरारेः किरीटं नोऽस्माकं शश्वच्छम दिश्यात् । कथंभूतम् । कलिकल्लुषतमः- पाटनम् । पारेपयोधि समुद्रमध्ये ज्वलन्नकृत्रिमो महान्प्रौढो भाखान्प्रकाशबहुलश्च य और्वाग्निर्वाढवानलस्तस्य शङ्कां कुर्वत् | यत्र किरीटे प्रत्युप्तानां खचितानांर्त्नप्रवराणां परितो लसद्भूर्यधिक योचिस्यानो विस्तारस्तस्य स्फूर्त्या स्फुरणेन मुरारेर्मुर्तिर्द्यु- मणिशतचितव्योमवद्युगपदुदितानेकसूर्यव्याप्ताकाशवद्दुर्निरीक्ष्या दुष्प्रेक्ष्या तत् ॥ भ्रान्त्वा भ्रान्त्वा यदन्तस्त्रिभुवनगुरुरप्यब्दकोटीरनेका गन्तुं नान्तं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् ।