पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कमलनयनस्य भगवतो नाभीसरसि सरोवद्गम्भीरवर्तुले नाभिमण्डले नोऽस्माकं चित्त- हंसश्चिराय दीर्घकालं केलिबुद्ध्या रमणेच्छया वसतु । कथंभूते नाभीसरसि । नीला- श्मनीलैरिन्द्रनीलमणिवन्नीलवर्णैतरलैश्चञ्चलै रुचिजलैर्देहप्रभाकान्तिपूरैः पूरिते। किं- लक्षणं पयोजम् । उन्नम्रमुन्नतम् । कम्रं मनोहरम् । विचित्रैर्नानावणैः पत्रैरुच्चैरविशये- नोपचितम् । तथा गीर्वाणानां देवानां पूज्यम् । तथा कमलजो ब्रह्मा स एव मधुपो भ्रमरस्तस्यास्पदं स्थानम् ॥ पातालं यस्य नालं बलयमपि दिशां पत्रपङ्क्तिं नगेन्द्रा- न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां वर्णशैलम् । भूयाद्गायत्वयंभूमधुकरभुवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ २४ ॥ नागः शेषाख्यः शय्या यस्य तस्य शौरर्विष्णोनीभिरेव पद्माकरः सरतत्र भवतीति तथाविधमुरु बृहन्नालीकं कमलं नोऽस्माकं कामदं भूयात् । गायन्वेदान्पठन्वयंभूर्ब्रह्मा स एव मधुकरस्तस्य भवनं गृहम् । तथा भूमयं पृथ्वीखरूपम् । किं तत् । विद्वांसो वि- दितसकलवेद्या यस्य नालं पातालमाहुः । तथा यस्य पत्रपङ्क्ति दिशां वलयं मण्डलमाहुः । तथा नगेन्द्रान्हिमवदादीन्यस्य केसरालीर्विदुः । तथा खर्णशैलं मेरुं यस्य विपुलां कर्णिकां विदुः । तत् ॥ कान्त्यम्भःपूरपूर्णे लसदसितवलीभङ्गभास्वत्तरङ्गे गम्भीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । कीडवानद्धहेमोदरनविनमहावाडवाग्निप्रभाढ्ये कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ २५ ॥ दामोदरस्य भगवत उदरसलिलनिधौ । 'कुक्षौ समुद्राश्चत्वारः' इत्युक्तत्वात् । नोऽस्माकं चित्तमत्स्यः कामं यथेष्टं क्रीडतु । उदरसलिलनिधिविशेषणानि । कान्तिर्देह- दीप्तिः सैचाम्भ उदकं तस्य पूरः प्रवाहप्रसर्पणं तेन पूर्णे। तथा लसन्तः शोभमाना असिता नीला वलीनामुदरदेशस्थरेखाविशेषाणां भङ्गा एव भास्वन्तस्तरङ्गा यस्मिन् । तथा गम्भीरोऽगाध आकारो यस्य स चासौ नाभिश्चेति स एव चतुरतरोऽतिशयेन चतुरः सुन्दरो महानावर्ततेन शोभा विद्यते यस्मिन् । अत एवोदारे मनोहरे। तथा- नद्धमासमन्ताद्वद्धं यद्धेममयमुदरनविनमुदराभरणं तदेव महती वाडवामिप्रभा तयाढ्ये संभृते । यद्वा 'हेमोदरनलिन-' इति पाठः । तदा 'कर्णिकां स्वर्णशैलम्' (२४) इति पूर्वश्लोके मेरुकर्णिकस्य नाभिकमलस्योक्तत्वात् । हेमोदरं हेम कर्णिकाख्यमुदरे मध्ये यस्य तच्च तन्नलिनं च तदेव महावाडवाग्निप्रभेति व्याख्येयम् ॥