पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विष्णुपादादिकेशान्तवर्णनस्तोत्रम् ।

नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव यान्ती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या । रम्या सा रोमराजिर्महितरुचिमती मध्यभागस्य विष्णो- श्चित्तस्था मा विरंसीचिरतरमुचितां साधयन्ती श्रियं नः ॥२६॥ विष्णोर्मध्यभागस्य संबन्धिनी रोमरार्जिर्नोऽस्माकं चित्तस्था सती मा विरंसीद्वि- रतिं मा करोतु । तत्र भूयादित्यर्थः । किं कुर्वती । उचितामस्मद्योग्यां श्रियं साध- यन्ती । किंभूता । रम्या । महितरुचिमती महिता सर्वैः प्रशस्ता या रुचिस्तद्वती। या नामीनालीकस्य मूलाद्वक्रपद्मोन्मुखी । अलीनां भ्रमराणां नीला मालेव रुचिमती रुचिरा स्फुरति । कथंभूतानामलीनाम् । अधिकपरिमलोन्मोहितानाम् । नाभिकमल- सौरभ्याघ्राणादधिकमोहितानामित्यर्थः ॥ आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः कल्पान्ते यस्य चान्तः प्रविशति सकलं स्थावरं जङ्गमं च । अत्यन्ताचिन्त्यमूर्तेश्चिरतरमजितस्यान्तरिक्षस्वरूपे तस्मिन्नस्साकमन्तःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥ २७ ॥ अजितस्य हरेः क्रोडभागे भुजद्वयमध्यप्रदेशे वक्षःस्थलादधोभागेऽस्माकमन्तःकरणं चिरतरमतिमुदा क्रीडतात् । कीदृशे। अन्तरिक्षखरूपे । हृदयाकाशस्थान इत्यर्थः । किंभूतस्याजितस्य । अत्यन्तं सर्वात्मना न चिन्त्या मूर्तिः खरूपं यस्य । यस्मात्कोड- भागात्सकलं निरवशेषं विश्वं कल्पस्यादौ प्रभवत्युद्भवति । तथा कल्पान्ते यस्यान्तः स्थावरं जङ्गमं च विश्वं प्रविशति । किंलक्षणं विश्वम् । मन्वन्तरादिभेदैर्विततं विस्तीर्णम् ॥ संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं श्रीवत्सोल्लासि फुल्लप्रतिवनवनमालांशुराजद्भुजान्तम् । वक्षः श्रीवृक्षकान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ २८ ॥ शाईपाणेर्नारायणस्य तद्वक्षः प्रपद्ये तात्पर्येणाश्रये । यत्संसाराध्वश्रमार्तैर्जन्ममरणभो- गवेदनादिमार्गभ्रमणजश्रमपीडितैरुपवनमिव सेवितमुपासितम् । उपवनतुल्यतामेव प्रति- पादयति-कौस्तुभस्य भगवत्कण्ठस्थितरत्नविशेषस्यांशवः किरणास्तेषां प्रसरास्तान्येव किसलयानि तैः संस्तीर्णम् । सर्वत्र विप्रसृतमिति यावत् । तथा मुग्धानि सुन्दराणि मुक्ताफलानि तैराढ्यम् । मौक्तिकानि यत्र फलतुल्यानीति यावत् । श्रीवत्सो नाम भगवद्वक्षसि प्रदक्षिणरोमावर्तो भृगुपदप्रहारस्थानगतश्चिह्नविशेषस्तस्योल्लासोऽभिव्यक्ति- र्विद्यते यस्मिन् । तथा च फुल्ला विकसिता प्रतिवनं वने वने जाता या वनमाला