पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

वेदाश्चन्द्रमसं वदन्ति भवतः स्वान्तं कथं तद्वृथा
कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः ।
तस्यैवामृतपशिलास्तव मुखादाविर्भवन्तो बहि-
छन्तं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४ ॥

यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया
यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् ।
तस्याप्याननपङ्कजे तव जयत्युच्चैस्तरां रागिता
येनाभीरकुलप्रदीप तदलं ताम्बूलमारतां मुदे ॥ २५ ॥

पीयूषद्रवसौरसारघमधुद्रोणी त्वदीयाधरा-
खादायार्कसुतातटे श्रितवती सद्वंशजाता तपः ।
तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चैस्तरा-
मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६ ॥

साफल्यं श्रुतिसंपदा त्रिजगतां प्रालेयधाराप्रपा
पीयूषद्रवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् ।
ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवज्राहतिः
कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७ ॥

थैर्य धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोच्छति
प्रत्येकं गुरुवर्गगञ्जनशतं विस्मारयत्यजसा ।
साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विषं
किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ॥ २८ ॥

लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय धाता चिरा-
न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः ।
ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं
ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ॥ २९ ॥

आशानागकरप्रसारिमहसा निःशेषवामझुवा-
माशामिविदशेशनिर्भरशुभैः कसादिनाशश्रिया ।


१. सरघा मधुमक्षिका तत्संचितं मधु सारघमित्युच्चते. २. दिग्गजः,