पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रेम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यैर्दृशां
सौभाग्यैर्व्रजसुभ्रुवां व्रजपते किं ते भुजौ निर्मितौ ॥ ३० ॥

कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं
साम्यं वा भजतां कथं जलरुहे सर्वज्ञमध्यस्यतोः ।
मत्तर्कः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत-
स्त्वत्पाण्योरिति तौ वदन्ति कमले सा यत्तदेकालया ॥ ३१॥

अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाङ्कुर-
श्रेणी यत्परितोऽङ्गलीयकामपस्निग्धालवालावलिः ।
किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो-
त्तीर्णाः सत्फलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ॥ ३२ ॥

भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृतिं
रागान्धस्य पुरा हिरण्यकशिपोर्वक्षःस्थली पाटिता ।
तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते
गोपीनां कुचकुङ्कुमैर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३ ॥

एतौ पञ्चशिरस्त्विषा दशदिशः संभावयन्तौ भृशं
दैत्यमाणसमीरसंहतियमौ श्यामौ भुजंगोत्तमौ ।
तन्मौलिद्युतिशालिनी पुनरियं रत्नावली जृम्भते
यां प्राहुस्तव गोकुलेश नखरश्रेणी करस्थां जनाः ॥ ३४ ॥

दोर्दण्डद्वयबन्धनानि विदधुनन्दोपनन्दादय-
स्तद्ग्रन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारणे ।
तान्येवाप्रतिमप्रभाणि हरितो विद्योतयत्यद्भुतं
विद्वांसस्तव कङ्कणाङ्गदतया गोविन्द यज्जायते ॥ ३५ ॥

शृङ्गारद्रुमसारकण्डनवशात्त्रैलोक्यसीमन्तिनी-
क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रलम्बौ कृतौ ।


१. नखकान्त्या.