पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

ह्रिया हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ १॥

समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि ।
यमासाद्योन्माद्यहिपनियुक्तगण्डस्थलगल-
न्मदक्लिनद्वारो भवति सुखसारो नरपतिः ॥ २ ॥

उरस्यस्य अश्यत्कबरभरनियंत्सुमनसः
पतन्ति स्वर्वालाः स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनु गङ्गाधरमुखा-
स्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥ ३॥

समीपे संगीतखरमधुरभङ्गी मृगदृशां
विदूरे दानान्धद्विरदकलभोदामनिनदः ।
बहिद्वारे तेषां भवति यहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि सदया ॥ ४ ॥

अगण्यैरिन्द्राद्यैरपि परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः ।
उदञ्चत्पीयूषाम्बुधिलहरिलीलामनुहर-
नपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ ५ ॥

नमन्मौलिश्रेणित्रिपुरपरिपन्धिप्रतिलस-
कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः ।
लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरण-
श्चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥ ६॥

अवालानां दीक्षागुरुरपि च लाक्षारुणरुचां
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटुः ।
नृणामन्तर्धान्तं निविडमपहर्तुं तव किल
प्रभातश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥

१० द्वि० गु०