पृष्ठम्:काव्यमाला (द्वितीयो गुच्छकः).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रीत्या चास्या मधुरवचनाश्वासनाभिः प्रयान्तं
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ १२१ ॥

त्वामर्थेऽस्याः किमिति नितरां प्रार्थये नाथ भूयो
यस्मादीदृग्जगति महतां लक्षणं सुप्रसिद्धम् ।
स्नेहादेते न खलु मुखरा याचिताः संभवन्ति
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ १२२ ॥

गत्वा शीघ्रं स्वपुरमतुलं प्राप्य राज्यं त्रिलोक्याः
कीर्तिं शुद्धां वितनु सुहृदां पूरयाशां च पित्रोः ।
राजीमत्या सह नवघनस्येव वर्षासु भूयो
मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ॥

तत्सख्योक्ते वचसि सदयस्तां सतीमेकचित्तां
संबोध्येशः स भवविरतो रम्यधर्मोपदेशैः ।
चक्रे योगान्निजसहचरी मोक्षसौख्याप्तिहेतोः
केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ १२४ ॥

श्रीमान्योगादचलशिखरे केवलज्ञानमस्मि-
न्नेमिर्देवोरगनरगणैः स्तूयमानोऽधिगम्य |
तामानन्दं शिवपुरि परित्याज्य संसारभाजां
भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ १२५ ॥

तदुःखार्थं प्रवरकवितुः कालिदासस्य काव्या-
दन्त्यं पादं सुपदरचितान्मेघदूतागृहीत्वा ।
श्रीमन्नेमेश्वरितविशदं साङ्गणस्याङ्गजन्मा
चक्रे काव्यं बुधजनमनःप्रीतये विक्रमाख्यः ॥ १२६ ॥

इति साङ्गणसूनुश्रीविक्रमकविविरचितं नेमिदूतं समाप्तम् ।

पण्डितराजश्रीजगन्नाथविरचिता
लक्ष्मीलहरिः ।

समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचा-
मपाङ्गानां भङ्गैरमृतलहरीश्नेणिमसृणैः ।