पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। ऋषभैः क्रीताः कोटिकाण्डाः काण्डकोटिप्रमाणाः । काण्डः प्रमाणविशेषः मानदण्डः । अहंयवः अहंकारिणः प्रस्तीमं धनीभूतं पापं येषाम् ॥-जागरित्वेति । 'न क्त्वा सेट्'इति कित्त्वाभावाद्गुणः । शतर्षभा इति । 'तेन क्रीतम्' इति ठक् । तस्य 'अध्यर्धपूर्वद्विगोर्लुगसं- झयाम्' इति लुकि 'अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि' इति न ङिप् । अभावे टाप् । कोटिकाण्डा इति । 'प्रमाणे द्वयसज्-' इति विहितस्य 'प्रमाणे लो द्विगोर्नित्यम्' इति लुकि कृते 'काण्डान्तारक्षेत्रे' इति ङिप्प्रतिषेधः । प्रस्तीमेति । 'स्त्यै ष्ट्यै शब्दसंघातयोः' । क्तः । 'स्त्यः प्रपूर्वस्य' इति संप्रसारणम् । 'प्रस्त्योऽन्यतरस्याम्' इति पक्षे मकारः। अहंयव इति । 'अहंशुभमोर्युस्' मत्वर्थीयः । भूरिति । 'नेयङुवङ्स्थानावस्त्री' इति नदीसंज्ञाभावाद्खाभावः । प्रमापितानिति। 'हन्त्यर्थाश्च' इति चुरादिणिच् । 'मीन तिमिनोतिदीङां ल्यपि च' इत्यात्वे पुक् ॥ आप्यानशीतांशुरुचौ नमस्थतः सुरक्षिताहौ शयितोऽपि पीनदोः । हव्यं सुरैरादयिता शृतं हुतं जनिष्यते स त्वयि विष्टरश्रवाः॥ १५॥ स विष्टरश्रवास्त्वयि भूलोके जनिष्यते । अहौ अनन्ते शयितः सुप्तोऽपि नमस्यतो नमस्कुर्वतो जनान् सुरक्षिता। आप्यानशीतांशुरुचौ । आप्यानः प्रवृद्धः। रुचिः शोभा। पीनदोः पीवरबाहुः । शृतं हुतं हव्यं सुरैरादयिता उपयोजयिता ॥-शयित इति । 'शीड् स्वप्ने'। तः। 'निष्ठा शीङ्खिदिमिदिक्ष्विदिधृषः' इति कित्त्वाभावे गुणः । नमस्यत इति । 'न- मोवरिवश्चित्रडः क्यच्, 'नमसः पूजायाम्' इति क्यच् । शीतेति । श्यैङ् गतौ क्तः । 'द्रव- मूर्तिस्पर्शयोः श्यः' इति संप्रसारणम् । शृतमिति । 'श्रा पाके' । क्तः । 'नृतं पाके' इति व्यवस्थितविभाषा । धातोः शृवादेशः । क्षीरहविषोर्नित्यम्, अन्यत्र न स्यात् । आप्या- नेति । 'स्फायी ओप्याथी वृद्धौ क्तः । 'प्यायः पी' इति व्यवस्थितविभाषया पी आ- देशः।अनुपसर्गस्य नित्यं सोपसर्गस्य न स्यात् । सुरैरिति । 'गतिबुद्धी-' इत्यत्र अदिखाद्योः प्रतिषेधो वक्तव्यः' इत्वणिकर्तुः कर्मलाभावः । विष्टरश्रवा इति । विष्टरो वृक्षोऽश्वत्थस्त- द्रूपत्वेन श्रूयते इति । 'अश्वत्थश्चास्मि वृक्षाणाम्' इति भारते। 'वृक्षासनयोर्विष्टरः' इति मूर्धन्यः ॥ माहा द्विदाम्नीर्बलतः पयोमराद्द्व्युरिवोत्पुच्छयमानतर्णकाः । जातः शुभंयोर्वसुदेवतः प्रभुस्वातां घटोघ्नीर्व्रजसीन्नि वर्त्स्यति ॥१६॥ प्रभुर्वसुदेवतो जातो माहा गास्त्राता व्रजसीन्नि वर्त्स्यति वर्धिष्यते । बलतः बलेन हेतुना द्विदाम्नीः द्वे दामनी यासां पयोभरात् क्षीरातिशयाद्धेतोः द्वधुध्निरिव द्वे ऊधसीआ- पीने यासाम् । उत्पुच्छयमानतर्णकाः पुच्छमुदस्यन्तस्तर्णकाः यासाम् । घटोघ्नीः घट इव ऊधो यासाम् । शुभंयोः शुभान्वितात् ॥-उत्पुच्छयमानेति । 'पुच्छभाण्डचीचराष्णिड्', १. 'गौः सौरभेयी माहेयी माहा सुरभिरर्जुनी' इति हैम:. २. 'नाम्नीः' इति पाठः,