पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम्। मानः भृशमिच्छन् ॥---आहतेति । 'आङो यमहनः', 'स्वाङ्गकर्मकाचेति वक्तव्यम्' इति तङ् । 'हनः सिच्' इति सिचः कित्त्वात् अनुनासिकलोपः । उदायतेति । 'यमो गन्धने' इति सिचः कित्त्वादनुनासिकलोपः । गन्धनं सूचनम् । सोधुप्यमाणमिति । खपेर्यट् । 'स्वपिखमिव्येबां यङि' इति संप्रसारणम् । वावश्यमान इति । 'वश कान्तौ'। कान्तिरिच्छा । यङि 'न बशः' इति संप्रसारणाभावः। जागृविमिति । 'जॄशॄस्तॄजागृभ्यः क्विन्' औणादिकः॥ पापठ्यमानस्य ऋचश्चतुष्पदाश्चेकीयमानस्य विधेरथात्मनि । वैरायमाणेषु विकाषिणा मधोरूष्मायमरणेन वचोऽन्वगृह्यत ॥ १२ ॥ अथ मधोः विकाषिणा हिंसकेन मधुसूदनेन विधेः ब्रह्मणः आत्मनि बुद्धौ वचो अस्वगृह्यत अनुगृहीतम् । चतुष्पदाः पादचतुष्टययुक्ता ऋचः पापठ्यमानस्य पौन:पुन्येन पठतः । चेकीयमानस्य भृशं पूजयतः । वैरायमाणेषु वैरं कुर्वाणेषु । ऊष्मायमाणेन ऊमाणमुद्रमता ॥-'बाष्पोष्मभ्यामुद्रमने' इति क्यङ् । 'अटकुप्वाङ्-' इत्यादिना णत्वम् । वैरायमाणेष्विति । 'शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे' इति क्यङ् । चतुष्पदा इति । 'संख्यासुपूर्वस्य' इत्यकारलोपः । 'टाबृचि' पादान्तादृचि वाच्यायां टाप् । कीयमानस्येति । 'चायृ पूजानिशामनयोः' । यडि 'चायः' 'की' इति कीआदेशः । विकाषिणेति । 'कष हिसांयाम्'। 'वौ कष-' इति धिनुण् । सुफीता दधत्प्रीतिमुपायतावनिं य एव पाथोथिकुमारिकामित्र। वाचं तदीयामथ सोऽदितात्मभूर्ययासुखायिष्टतरां त्रिविष्टपीम् ॥१३॥ अथ स आत्मभूः ब्रह्मा तदीयां विष्णुसंबन्धिनी वाचं अदित उक्तवान् य एव पायो- धिकुमारिका मिव लक्ष्मीमिव अवनि उपायत परिणीतवान् । स्फीतां प्रकृष्टां प्रीति दधत् । यया वाचा त्रिविष्टपीं त्रिभुवनं असुखायिष्टतरां अतिशयेन सुखमन्वभूत् ।।-उपायतेति । 'उपाद्यमः स्वकरणे' इति तङ् । विभाषोपयमने' इति सिचः कित्वम् । अदितेति । 'दाधाघ्वदाप्' इति धुसंज्ञा । 'स्थाघ्वरिच' इति कित्वामित्वं च । असुखायिष्टतरामिति । 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् । 'अकृत्सार्वधातुकयोः' इति दीर्धः । कुमारिकामिति । 'वयसि प्रथमे','वयस्यचरम इति वक्तव्यम्' इति ङिप् । 'केऽणः' इति हखः । त्रिविष्टपीमिति । समाहारे द्विगु: 'द्विगोः' इति ङिप् । स्फीतामिति । 'स्फायी ओप्यायी वृद्धौ' क्तः । 'स्फायः स्फी निष्ठायाम्' इति स्फीआदेशः। 'क्तक्तवतू निष्ठा । क्षेत्रस्य भक्ती: सुधियां शतर्षभा द्राक्कोटिकाण्डाश्च हरन्यहंयवः । ये जागरित्वापथि भूरवेहि तान्प्रस्तीमपापानसुरान्प्रमापितान् ॥१४॥ हे भूः, तान् असुरान् प्रमापितान् हतान् अवेहि। ये अपथि अमार्गे जागरित्वा जागरूका भूत्वा सुधियां क्षेत्रस्य भक्तीः भागान् द्राक् झटिति हरन्ति । शतर्षभाः शतेन १. 'कीत' इति पाठः.