पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
वासुदेवविजयम् ।

कुन्दसूनमनोहारिमन्दहासविराजितम् ।
नन्दगोपकुलोत्तंसमिन्दिारमणं भजे ॥
काव्यं मया वासुदेवविजयाख्यमकारि यत् ।
व्याख्यापि तस्य तन्वीयं क्रियते पदचन्द्रिका ॥

कृतार्थता यस्य पदाम्बुजं सदा निषेवमाणं वृणुतेऽचिरात्स्वयम् ।
हृदा दधत्तं वसुदेवनन्दनं पुने गिरस्तञ्चरितामृतोर्मिभिः ॥१॥

अहं तं वसुदेवनन्दनं हृदा दधत् तच्चरितामृतोर्मिभिः गिरः पुने शोधयामि । यस्य पदाम्बुजं सदा निषेवमाणं पुरुषं कृतार्थता अचिरात् स्वयं वृणुते ॥

समस्तवित्तामधिजग्मुषः स्वतो यतः प्रजेशाः श्रुतिमध्यगीषत ।
तितिक्षमाणापि समं क्षमाप तं नृपीभवद्दैत्यभरार्दिता विधिम् ॥२॥

क्षमा तं विधिं ब्रह्माणमाप आश्रयत् । समं सर्वे तितिक्षमाणापि सहमानापि नृपीभवद्दैत्यभरार्दिता अनृपा नृपा भवन्तीति नृपीभवन्तस्ते दैत्या एव भरस्तेन पीडिता । यतः प्रजेशाः श्रुति अध्यगीषत अधीतवन्तः । स्वतः स्वभावेन अथवा सर्वात्मभूतादन्तर्यामिणः समस्तवित्तां सर्वज्ञत्वं अधिजग्मुषः प्राप्तवतः ॥-इह पाणिनीयसूत्रे चत्वारो भागाः परिकल्पिताः । प्रथमद्वितीयाध्यायात्मक आद्यः । तृतीयाध्यायात्मको द्वितीयः । चतुर्थपञ्चमाध्यायात्मकस्तृतीयः । अवशिष्टाध्यायात्मकश्चतुर्थः । तत्र युगपदधिक्रियन्ते-अध्यगीषतेति । इड् 'अध्ययने' । इडिकावधिपूर्वावेव प्रयुज्येते । लुडि 'चिल लुडि' इति च्लिः । 'च्लेः सिच्' 'विभाषा लुङ्लृडोः' इति गाडादेशे, 'गाङ्कुटादिभ्योऽञ्णिन्डित्' इति सिचो डित्त्वे 'घुमास्थागा-' आदिनेत्वं । 'आदेशप्रत्यययोः' इति षत्वम् । तितिक्षमाणेति । 'तिज निशाने। 'गुप्तिज्किद्भ्यः सन्' इति सन्प्रत्ययः । स्र च 'निन्दाक्षमाव्याधिप्रतीकारेषु सन्निष्यते' इति क्षमायाम् । पञ्चमाध्यायान्तं वक्ष्यमाणानां प्रकृत्युपपदोपाधिविकारागमवर्जं प्रत्ययसंज्ञा । स च 'प्रत्ययः' 'परश्च' इति धातोः प्रातिपदिकाद्वा परः स्यात् । 'सनाद्यन्ता धातवः' इति धातुसंज्ञा । 'सन्यङोः' इति सन्नन्तस्य द्विर्वचनम् । लटः शानच् । कृदन्तत्वात्प्रातिपदिकत्वम् । स्त्रीत्वविवक्षायां 'स्त्रियाम्' 'अजाद्यतष्टाप्' इति टाप् । तदन्तत्वात् 'ङ्याप्प्रातिपदिकात्' इत्यधिकृत्य 'स्वौजसमौट्छष्टाभ्याम्भिस्डेभ्याम्भ्यस्डसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्' इति सुप् । अधिजग्मुष इति । 'गम्लृ गतौ' अधिपूर्वः । लिटः क्वसुः 'गमहन-'आदिना उपधालोपः। 'लिटि धातोरनभ्यासस्य' इति द्विर्वचनम् । तच्च हलादीनां धातूनां 'एकाचो द्वे प्रथमस्य' इति प्रथमस्यैकाचः स्यात् । 'पूर्वोऽभ्यासः' इत्यभ्याससंज्ञा । 'कुहोश्चुः' इत्यभ्यासस्य चुत्वम् । समस्तविदिति । 'सत्सूद्विष-' इति क्विप् । 'दित्यदित्यादित्य-' इति ण्यः । ['तद्धितेष्वचाम्-' इति] आदिवृद्धिः । 'वृद्धिरादैच्' इति वृद्धिसंज्ञा ॥