पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। आपीयेति । ११४१ पीङ् पाने । ल्यप् । अमानेति । १९४२ माइ माने । ल्युट् । निरी- तेति । ११४३ ईङ् गतौ ! कर्तरि क्तः । प्रीतिमिति । ११४४ प्री प्रीतौ । क्तिन् । अकर्मकोऽयम् । धूडादय आत्मनेपदिनः । षूड् दूड् डीड्वर्जमनुदात्ताः। श्यतः। ११४५ शो तनूकरणे । शता । 'मोतः श्यनि' इति लोपः । अच्छात् । ११४६ छो छेदने । लुडि "विभाषा घ्राधेट्शा-' इति सिज्लुक् । अवसायेति । ११४७ षो अन्तकर्मणि । जनद इति । ११४८ दो अवखण्डने । विप् । श्यत्यादयोऽनुदात्ताः परस्मैपदिनः । अजनिष्ठ । ११४९ जनी प्रादुर्भावे । अयमुत्पादनायामपि । लुड् । दीप्तेति । ११५० दीपी दीप्तौ । पूर्णेति । ११५१ पूरी आप्यायने । अकर्मकोऽयम् । द्वयोः कर्तरि तः । सूर्णेति । ११५२ तूरी गतिवरणहिंसनयोः । त्वरणमात्रे च द्रुमे । अस्मात् क्तः । विधूर्णेति । ११५३ धूरी ११५४ गूरी हिंसागत्योः । धूरेः कर्मणि क्तः ॥ गूर्णेऽस्मिन्वहुजन्तुघूरिणि खले जूर्णैः शशंसे नृभिः शौरिः शूरकगर्वचूरणपरः संतप्यमानः सताम् । देवौघस्य तपन्भुवं च पतितावावृत्तभूमाप्यसौ वृत्तक्लेशलबैरकाश्यत समं संवाश्यमानैः स्वकैः ॥ ६ ॥ शौरिरस्सिन्खले पूर्णे हिंसिते सति जूणैद्धैर्विद्यादिवृद्धैर्नृभिर्जनैः शशंसे स्तुतः । बहुजन्तुधूरिणि सर्वजन्तुधूरिणि सर्वजन्तुहिंसाशीले । कीदृशः शौरिः । शूरकगर्वचूरणपरः शूरकाणा हिंसकानां स्तम्भनकर्तृणां च दर्पस्य दाहपरः । सतां संतप्यमान ईश्वरो देवी- घस्य तपन् ईश्वरो भवन् भुवश्च पतिता ईशिता । इत्थंभूतोऽसौ(साव) वावृत्तमूमा अवि- च्छादितैश्वर्योऽपि सन् वृत्तक्लेशलवैश्छादितक्लेशलेशैः। अत एव संवाश्यमानैः 'जय केशवा- च्युत' इति शब्दायमानैः खकैः सममकाश्यत दीप्तोऽभूत् ॥-पूर्णेति । गूरेः कर्मणि क्तः। जन्तुघूरिणि । ११५५ पूरी १९५६ जूरी हिंसावयोहान्योः। घूरेणिनिः । जूणैः । जूरेः कर्तरि कः शूरकेति । ११५७ शूरी हिंसास्तम्भनयोः । ण्वुल् । चूरणेति । ११५८चूरी दाहे । ल्युट् । संतप्यमानः । ११५९ तप ऐश्वर्ये वा । तपिरस्मिन्नर्थे वा तड्क्यनौ ग्रा- मोतीत्यर्थः । कोपे च द्रुमे । शानच् । तपन् । तझ्यनोरभावेऽपि शता । पतिता । पत ऐश्वर्ये वा इत्येके । तस्मिन् पक्षे तृच्। वावृत्तेति ।वृत्तेति।११६० वृतु वरणे । केचित् पूर्वत्र [पठितं] वाग्रणमस्यादिं कृत्वा 'वात वरणे' इत्याहुः । द्वयोः कर्मणि कः । क्लेशेति । ११६१ क्लिश उपतापे । बञ् । अकाश्यत । ११६२ काश्य दीप्तौ । लङ् । संवाश्य- मानैः।११६३ काश शब्दे । शानच् । जन्यादय उदात्ता अनुदात्तेतः। तपिस्त्वनुदात्तः। तन्मृष्यसाणास्त्वथ शुच्यदङ्गका भृत्याः सुनद्धं बहुरक्तमंशुकम् । विसृज्य शप्यन्त इमं प्रदुद्रुवुः कृष्णः प्रपेदे वसनान्यखेदवान् ॥६॥ 'अथ भृत्यास्तत्स्वाभिवधादिकं मृष्यमाणाः सहमानाः सुनद्धं भन्नायां निधाय सम्य- 3."विधाय' इति पाठः