पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम्। ग्बद्धं बहु अनल्पमंशुकं विसृज्य वक्त्वा इमं शप्यन्तो निन्दन्तः प्रदुवुः । शुच्य दलकाः स्वेदादिभिः पूतीमवत्कुत्सिताझाः । रकं कुसुम्भादिभिः कृतनानावर्णम् । कृष्णो वसनान्यं- शुकानि प्रपेदे उद्धृतवान् ॥-मृध्यमाणा इति । ११६४ मृष तितिक्षायाम् । शानच् । शुच्यादिति । १९६५ ई शुचिर पूतीभावे । दुर्गन्धीभावस्तत् । शौचविशरणक्लेशेषु च द्रुमे शता । द्वावुदात्तौ । सुनद्धम् । ११६६ णह बन्धने । कर्मणि कः । रक्तम् ॥११६७ रन्ज रागे। कर्तरि क्तः । शप्यन्तः । ११६८ शप आक्रोशे । शता । त्रयोऽनुदात्ताः। मृषादयः पञ्च खरितेतः । प्रपेदे । १९६९ पद गतौ । लिट् । खेदेति । ११७० खिद दैन्ये धञ् ॥ प्राग्विद्यमानवसनेष्वधृतैकमीशो बुवा ददौ च रिपुवोधजयी निजेभ्यः । कंसानुरोध्यणनहृन्मतिमागर्च्यः शेषं व्यसृज्यत पटौघमलिश्यमानम् ॥ ६२ ॥ ईशो विद्यमानवसनेव्वनवस्नेष्वेकं प्राक् अन्येभ्यः पूर्वमधृत परिहितवान् , बुद्धा निजेभ्यो ददौ च । स्वीयानां तारतम्यमवगम्य दत्तवांश्च । शेषं पटौथं व्यसृज्यत त्यक्त- वान् कंसानुरोध्यणनहृत् कंसानुवर्तिनामणनहत् प्राणहृत् । मतिमद्युगों मतिमतां ज्ञानिनां युजां समाधिकर्तृणामर्थ्यः । अलिश्यमानमनल्पीभवन्तं पटौघम् ॥---विद्यमाने- ति । ११७१ विद् सत्तायाम् । शानच् ।बुद्धा । ११७२ बुध अवगमने ज्वलादिगतबो- धतिबदुद्बोधो ज्ञानं चार्थः । तस्मात् क्त्वा । योधेति । ११७३ युध संग्रहारे । अच् । कंसानुरोधीति । १९७४ अनो रुध कामे । अनुपूर्वो रुधिः कामेऽर्थे तक्यनौ भजते। तस्मादन तु णिनिः । अणनेति । ११७५ अण प्राणने । अन इत्येके । ल्युट् । मतीति । ११७६ मन ज्ञाने। क्तिन् । युगिति । १९७७युज समाधौ । अकर्मकोऽयमिति माधवः । क्विप् । व्यसृज्यत । ११७८ सृज विसर्गे । स चोत्पादनत्यागौ । लङ् । अलिश्यमानम् । ११७९ लिश अल्पीभावे। शानच् । पदादयोऽनुदात्ता अण्यतिवर्जमनुदात्तेतः ॥ राध्यद्वेषगुणोऽथ कवरादैत्याविदेषोऽपुष- च्छोषं तोषकृतोऽस्य दोषविततेराश्लिष्टलक्ष्मीस्तनः । शक्यन्गर्वमशक्यमानमनसामाखिद्यदास्योऽधं क्षुध्यक्तदमाप मालिकवरं शुद्धं स सिद्धेप्सितम् ।। ६३ ।। अथैष दैत्याविद् दैत्यच्छेत्ता वायकवरात् सौचिकश्रेष्ठात् तद्दत्तोष्णीषादिभी राध्यद्वेष- गुणः सिध्यन्मनोज्ञवेषः सन् तोषकृतोऽस्य दोषवितते शमपुषदवर्धयत् । तदनन्तरं च स मालिकवरमालाकारश्रेष्ठमाप । कीदृशः । अशक्यमानमनसामसहमानमनसांगवे शक्यन् १. 'शुचिर्' अनादिद् धातुपाठे.