पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'काव्यमाला। या भ्राम्यत्तरजा स्फुट क्षरति । भ्राम्यन्तश्चलन्तस्तरमा यस्यां सा क्षरति प्रवहति । अहोल- सत्त्वा अहोलान्यहिंसकानि सत्त्वानि जलजन्तवो यस्यां सा रविरश्मिजालेऽप्यविक्कथन्यप- च्यमानानुष्णीभवन्तीत्यर्थः । तटपाथिपाथः तट पथितुं गन्तुं शीलं यस्य तादृशं पायो यस्याः सा। लापं मथन्ती क्षोभयन्ती त्यजन्ती। कणिकाः विन्दून् वमन्ती उद्गिरन्ती॥--अहोलेति। हुल हिसासंवरणगतिषु इत्येके । अस्माण्णः । अविक्वथन्ती। ८४६ क्वथे निष्पाके शतरि डीप् । तटपाथि । ८४७ पथे गतौ । णिनिः। असुन्नपि । मथन्ती ८४८ मथे विलो- डने । शतरि डीप् । वमन्ती । ८४९ टुवम् उद्गिरणे । श्राम्यदिति । ८५० भ्रम चलने। 'वा भ्राशालाश-' इति श्यनि शता। क्षरति। ८५१ क्षर संचलने । गलनं तत् । 'क्षर संचये' इति चैके। चलने च द्रुमे । स्यमादय उदात्ता उदात्तेतः ॥ सेहे च रामाजनखेलनं या कुचोरुसीदत्परिशद्भुतोया । क्रोशैर्जना: कोचगलान्मरालान्बोधन्ति यत्राम्बुरुहां विकासे ॥२४॥ या रामाजनखेलनं सेहे च । खेलनं क्रीडा । भगवत्क्रीडासुखमनुभूतवती । चेति चकारस्था पिरर्थः । कुचोरुसीदत्परिशद्भुतोया कुचोरुभिः स्तनसक्थिभिस्तदाघातेन सीदत् पौड्यमानं परिशद्ध विशरणशीलं तोयं यस्यां सा इति लीलाया असह्यत्वे हेतुः । जना यत्राम्बुरुहां पद्मानां विकासे क्रोशै रोदनैः सख्याह्वानशब्दैर्वा मरालान् हंसान कोच- गलान् कुटिलीभवत्कण्ठान् बोधन्ति जानन्ति ॥ सेहे इति । ८५२ षह मर्षणे । उ- दात्तोऽनुदात्तेत् । लिट् । रामेति । ८५३ रमु क्रीडायाम् । उदित्त्वमस्यानार्षम् । अ- नुदात्तोऽनुदात्तत् । अस्माण्णे टाप् । सीददिति । ८५४ षद्ल विशरणगत्यवसादनेषु शतरि 'पाघ्राध्मा-' इति सीदादेशः। परिशगु इति । ८५५ षद्ल शातने । तीक्ष्णीभावस्तत् । विशीर्णतायामित्येके । गतावप्यस्ति । 'दाधेसिशदसदः' इति रुः । कोशैः। ८५६ कुश आह्वाने रोदने च । पञ् । सदादयोऽनुदाता उदात्तेतः । कोचेति । ८५७ कुच. संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । अस्माण्णः । ८५८ बुध अवगमने । उद्बोधज्ञाने अस्यार्थावित्ययमकर्मकः सकर्मकश्च । अस्मालट् । अम्बुरुहामिति । ८५९ रुह बीजज- न्मनि । अस्मात् क्विम् । विकास इति । ८६० कस गतौ। विपूर्वत्वात् स्फुटनार्थता । अस्माद् घम् ॥ कुचादय उदात्ता उदात्तेतो रुहिवर्जम् ॥ हिद्भिः सुखमञ्चमानै खैरचद्भिर्मधु याचमानैः । रेटत्तटा या खलु चातकैश्च चाद्यं जलं प्रोथति दातुमुाम् ॥२५॥ या खलु चातकैरपि चायं प्रार्थनीयं जलं कणरूपं दातुमुव्यो प्रोथति पर्याप्नोति स- मर्था भवति । हिक्कद्भिर्जातिखभावप्राप्तमव्यक्तशब्दं कुर्वाणैः सुखं यथा तथाश्चमान- स्ततस्ततः संचरद्भिश्च । एतद्वयमृक्षविशेषणम् । अचद्भिर्डयमानैः मधु पुष्परसं याच- मानैरिव च । एतद्धयं भृङ्गविशेषणम् । तादृशै जैश्च रेटत्तटा शब्दायमानतीरा अनेन यमुनायाः सर्वजन्तूनां सुखकरत्वमुपकारित्वं चोक्तम् ॥-हिकद्भिरिति । ८६१