पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । १६७ गोपैनद्भिः समितैर्वृतोऽपि देवो न तस्ताम' विचिन्य गोपीः । बालेन तापेन चला जडाङ्गीरटालशोकवलितप्रतापाः ।। २१ ।। ध्वनद्भिः शब्दायमानैः समितैरविक्लवीभवद्भिर्गोपैर्वृतोऽपि देवो गोपौर्विचिन्त्य न त- ताम अविक्लवीबभूव पीडित एवासीत् । ज्वालेन दीप्तेन तापेन संतापेन चलाः क- म्पिताः । जडान्यसमर्थान्यङ्गानि यास ताः । अटालेन पूर्णेन शोकेन दलिता विक- लीभूताः प्रलापाः यास ताः ॥–ध्वनद्भिरिति । ध्वनेः शता । समितैः । ८२९ षम ८३० ष्टम अवैक्लव्ये । समेः कतरि क्तः। तस्ताम । स्तमेलिट् । ज्वालेन ! ८३१ ज्वल दीप्तौं । 'ज्वलितिकसन्तेभ्यः' इति णः । चलाः। ८३२ चल कम्पने । पचाद्यन् अडेति । ८३३ जल धान्ये । धान्यमतेश्यम् । अच् । लडयोरभेदाः । अटालेति । ८३४ टल ८३५ ट्वल वैकल्ये । टलेणः । ट्सलेः कर्तरि क्तः ॥ स्थलीहली सन्नलिनीश्च तीवो पलन्हरिश्चात्मबलप्रपोलः । कुलीरशालह्वलिताम्बुपूरह्मलत्पतङ्गां यमुनामवाप्तौ ॥ २२ ॥ पलन् हरिहली चोभौ स्थलीः सन्नलिनीश्च तीर्खा यमुनामवाप्ती । पलन् गच्छन् । स्थलीरकृत्रिमदेशान् । अवाप्तौ प्राप्तौ । आत्मबलेन स्वबलेन प्रपोलो महान् कुलीराणां कर्कटकानां शालेन गमनेन हलिते चलिते अम्बुपूरे जलपूरे हलन्तो गच्छन्तः पतझाः पक्षिणो यस्यां तां यमुनाम् ॥-स्थलीरिति । ८३६ष्टल स्थाने । अस्मादचि स्थलम् । स्थलशब्दात् 'जानपदकुण्डगोणस्थल-' इत्यादिना अकृत्रिमार्थे डीषि स्थली। हलीति ८३७ हल विलेखने । कर्षणं तत् । अचि हलं तस्मात् 'अत इनि' इतीनिः। नलि- नीरिति । ८३८ णल गन्थे । बन्धन इत्येके । अस्मात् 'बहुलमन्यत्रापि' इति कठिन- बदिनचि नलिनम् । तस्मादिनौ डीप् । पलन् । ८३९ पल गतौ । शता बलमिति । ८४० बल प्राणने धान्यावरोधने च। धान्यावरोधनं कुसूलादिव्यापारः । अस्मादचि ब- लम् । प्रपोल इति । ८४१ पुल महत्त्वे । ज्वलादिणः । कुलीरेति । ८४२ कुल संस्त्याने बन्धुषु च । संतान इत्येके । संस्त्यानं संघातः । अस्मात् संघाती भवतीति 'कुलेश्च भोजः। इतीरक् । शालेति । ८४३ शल [हल झल] ८४४ हुल ८४५ पत्ल गतौ । शलेर्घञ् । हलितेति । हलेः कर्तरि कः। झलदिति । गलेः शतः पतझेति । 'पत्रणच् पक्षिणि' इत्यनच् ॥ यमुनां वर्णयति षभिः- अहोलसत्त्वा रविरश्मिजालेऽप्यविकथन्ती तटपाथिपाथाः। तापं मथन्ती कणिका वसन्ती भ्राम्यत्तरङ्गा क्षरति स्फुटं या ॥२३॥ १. धातुपाठे तु 'घातने' इति पाठः, २. स्थलेति धातुपाटपाठः. ३. 'हलतेमलतेश्च घटादिपठितस्येह पाटो णविकल्पार्थः. घटादिपाठस्त्वर्थविशेष मित्वार्थ इति बोद्धव्यम् इति माधवग्रन्थानुरोधेन हलहालौ पठितौ इति बोध्यम्.