पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । सोऽप्यूचे शवतां गतस्य शशिवंशोत्थस्य भोजेशितु- वृत्तं प्रस्तुतमत्र शस्त्रनिलये शस्तं च चापोत्सवम् । चाहेनामहितस्य चास्य निधनोद्योग रहस्यूचिवा- नान्तव्यं खलु रहसेति च दृढामाज्ञां प्रभोरभ्यधात् ।। ९१॥ सोऽपि भोजेशितुत्तमत्र शस्त्रनिलये चापोत्सवं प्रस्तुतं चोच उक्तवान् । कीदृशस्त्र कंसस्य । शवतां गतस्य मृतप्रायस्य शशिवंशादुत्थितस्य जातस्यास्य निधनोद्योगं च रहस्यूचिवान् । चाहेन दम्भेन शाम्येन चामहितस्यापूजितस्य निन्दितस्य रहसा गन्तव्यं खलु इति । प्रभोईढामाज्ञामभ्यधात् चाभिहितवांश्च ॥---शवतामिति । ७२५शव गतौ । अज- न्तात्तल। शशीति।७२६ शश प्लुतगतौ । अजन्तान्मत्वर्थीय इनिः। शस्त्रेति । ७२७शसु हिंसायाम्। सर्वधातुभ्यः ष्ट्रन्' इत्यौणादिकः ट्रन् । शस्तम्। ७२८ शंसुस्तुतौ । हिंसायामि- त्येके । कर्मणि कः। 'अनिदिताम्' इति नलोपः। चाहेन।७२९ चह परिकल्कने । पञ्। अमहितः । ७३० मह पूजायाम् । कर्मणि क्तः । रहसि । ७३१ रह लागे । रंहसा । ७३२ रहि गतौ । द्वयोरसुन् । दृढाम् । ७३३ दृह ७३४ दहि ७३५ बृह ७३६ बहि वृद्धौ । बृहिर इत्येके । बृहि शब्दे च । स च गजशब्दः। दृहः हः स्थूलबलयोः' इति निपातितः क्तः॥ तच्छ्रुत्वा परिइंहितादरमसौ नन्दो बृहद्भोजन- -नैरप्युपबृंहितो विहितवान्प्रातः प्रयातुं मनः । गोबिन्दस्तुहिनांशुरम्यवदनः कसं जगद्दोहिनं पोहिष्यञ्जगदहणीयमहिमा मोदेन निन्ये निशाम् !! ९२ ॥ असौ नन्दः परिदंहितादरं परिवृद्ध आदरो यत्र तथा तच्छ्रुत्वा बृहद्भोजन-नैरप्युप- बंहितः पूर्णः सन् प्रातः प्रयातुं मनो विहितवान् । गोविन्दो जगद् दोहितुं मर्दयितुं शीलं यस्य तादृशं कंसं प्रोहिध्यन्नधिकमर्दयिष्यन् निशां मोदेन निन्ये नीतवान् । जगतामह- शीयो महिमा यस्य तादृशो गोविन्दः ॥---परिटंहितेति रहे: । बृंहः कर्तरि क्तः । बृहदिति । बृहेः 'वर्तमाने पृषहद्' इति बृहेरतिनिपातितः । उपबंहित इति । बृहेः कर्तरि क्तः । तुहिनेति । ७३७ तुहिर् ७३८ दुहिर् ७३९ उहिर् अर्दने । 'वेपितुह्योः' इति तुहेरिनच् । जगद्दो हिनामिति । दुहिरो णिनिः । प्रोहियन्निति । उहिरो लूटः शता । अ- हणीयेति । ७४० अर्ह पूजायाम् । योग्यत्वेऽपि अनीयर् । धुषादय उदात्तेतः शिषिवर्ज- मुदात्ताः॥ इति सव्याख्याने धातुकाव्ये प्रथमः सर्गः ।