पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
काव्यमाला।


इत्यादिवादिनमजो लसितस्मितस्तं
संवार्य धर्मपथघस्मरदुर्जनोज्जः ।
जीमूतचिरवझर्झरवाद्यहृद्यं
तेनैव चानुपिसितो निलयं पिपेस ॥ ८९ ।।

 अज इत्यादिवादिनं तं लसितस्मितः सन् सखे अलं स्तुत्वेति संवार्य तेनैव अ- सुपिसितोऽनुगतः सन् निलयं पिपेस प्राप्तवान् । कीदृशोऽजः । धर्मपथघस्मराणां धर्ममार्गनाशकानां दुर्जनानामुन्ज उच्चैहिँसकः । कीदृशं निलयम् । जीमूतचर्चि मेधान् तर्जितुं शीलं यस्य तादृशो रखो यस्य तेन झर्झरवाद्येन हृद्यम् ॥ लसितेति । ७१४ लसलेषणक्रीडनयोः । शोभायां प्रसिद्धः । कर्तरि कः। घस्मरेति । ७१५ घस्ल अ- दने । 'सृघस्यदः क्मरच्' इति क्मरच् । उज्नः । ७१६ जर्स ७१७ चर्च ७१८ झझं परिभाषणहिंसातर्जनेषु । जर्सेः क्विपि रात्सस्य' इति संयोगान्तलोपः । 'अत्व- सन्तस्य' इति दीर्घस्तु धातुत्वान्न । जीमूतचर्चि । चर्चेः णिनिः । झरिरः । अनुपिसितः। ७१९ पिस ७२० पेस गतौ । पिशू पेश इत्येके । पिसेः कर्मणि क्तः । पेसेलिँट् ॥

भूषापिशङ्गरुचिपेशलमाममित्र-
मक्रूरमागतमवेक्ष्य हसन्स नन्दः ।
संभाव्य साधु ससुतो निशि पर्यपृच्छ-
न्मेशोद्भुतारिमशकस्य नृपस्य वृत्तम् ॥ ९ ॥

 स नन्द आत्ममित्रमकूरमागतमवेक्ष्य साधु संभाव्य हसन् ससुतो निशि नृपत्य वृत्तं पर्यपृच्छत् । कीदृशमक्रूरम् । भूषाणां पिशङ्गया रुच्या पेशलं मनोहरम् । कीदृशस्य नृ- पस्य । मेशेन कोपेन शब्देन वोद्भुतास्त्यका अरिरूपा मशका येन तस्य ॥-पिशङ्गेति। 'पतेरङ्गच् पक्षिणि' "विडादिभ्यः कित्' इत्यत्र 'कुरिपिडिमृदिपिशिभ्यः कित्' इति भोजोक्तेः पिशेरगच् पेशलमिति । [ औणादिके कलप्रत्यये बाहुलकाद्गुणः । ] हसन्निति । ७२१ हसे हसने । शता। निशीति । ७२२ णिश समाधौ । अधिकरणे संपदादि- क्विम् । मेशेति । ७२३ मिश ७२४ मश शब्दे रोषकृते च । शब्दकोपयोरिति दु. मोक्या रोषकृतं रोष एव । मिशेर्घञ् । मशकस्य मशेः 'कुन्छिस्पिसंज्ञयोः' इति कुन् ।


१. 'जर्ज झझं चर्च एषां चर्गीयान्तेषु पाठ उचितः । नत्विहोष्मान्तेषु' इति प्रौढ- मनोरमा ॥ नत्विहेति । केचित्तु-आद्यो दन्त्योष्मान्तः। द्वावप्यर्थसाम्यात्पठितौ-इत्याहुः।। 'मूलं त्वाद्यस्यापि ववर्गतृतीयान्तत्वमिति मते बोध्यम्' इति शब्दरत्नम् ॥माधवोऽपि- 'चर्च झर्शयोस्तुदादौ पठिष्यमाणयोरिह पाठः स्वा(शब)र्थ इति दोवमैत्रेयपुरुषकारेषु । ऊष्मान्वेषु पाठोऽर्थानुरोधादिति मैत्रेयः' इति अन्थेनाद्यस्योष्मान्तत्वमभिप्रैति । 'जर्स' इति पाठे 'अत्वसन्तस्य' इति दीर्घशक्षा वृथा, 'जस्स' इति पाठे 'रात्सस्य' इत्यस्योप- न्यासो वृथा इति देवा एव विदांकुर्वन्तु ॥