पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम्।

घोषभूषः पङ्कजाक्षस्तमूचे पापश्रेणी तक्षणे त्वष्ट्रधर्मा ।
उक्षन्नेनं मन्दहासेन रक्षन्विश्वनिक्षन्बल्लवीस्तृक्षिताघाः ॥ ८३ ।।

पङ्कजाक्षस्तमूचे । कीदृशः। धोषन्त्यः शब्दायमाता भूषा यस्य सः । पापश्रेण्यास्तक्षणे तनूकरणे वटुरिव तक्ष्ण इव धर्मो व्यापारो वस्य सः । एनमक्रूरं मन्दहासेनोक्षनार्द्रीकुर्वन् । तृक्षिताधा गताघाः बल्लवीनिक्षन् चुम्बन् ॥--घोषदिति । ६५३ धुषिर् अवि- शब्दने । ऋदित्येके । अर्हान्ता उदात्तेतः शिषिवर्जमनुदात्ताः । आविष्कृताभिप्रायं वदनं विशब्दनम् । तद्व्यतिरिक्तेऽर्थेऽयं धातुः । सचार्थः शब्दमानं वा यथाप्रयोगमन्यो वा । अस्माच्छता । पङ्कजाक्षः । ६५४ अक्षु व्याप्तौ । संघाते च द्रुमे । अस्मादौणादिकेऽन्नन्तादक्षिशब्दात् समासान्तः पच् । तक्षणे । ६५५ तथु ६५६ त्वथू तनूकरणे । तक्षेल्युट् । त्वष्ट । 'नप्तृनेष्ट्रुत्वष्टृ–इत्यादिना तृन्नन्तो निपातितः । उक्षन् । ६५७ उक्ष सेचने । रक्षन् । ६५८ रक्ष पालने । निक्षन् । ६५९ णिक्ष चुम्बने। त्रिभ्यः शता। तृक्षितेति । ६६० तृक्ष ६६१ ष्टक्ष ६६२ णक्ष गतौ । तृक्षेः कर्तरि क्तः ॥

आस्तृक्षितोऽद्य वितनोषि महत्सुखं नो
नक्षत्रराडिव परं विकलङ्कवक्षाः ।
संमृक्षितोरुगुलमाक्षिकहृद्यवाच-
स्तक्षन्ति नाम शुचमिष्टकराः सपक्षाः ॥ ८४ ॥

हे अक्रूर, आस्तृक्षित आगतस्त्वमद्य नो महत् सुखं वितनोषि । नक्षत्रराट् चन्द्र इव । परं केवलं विकलङ्कवक्षा विकलङ्कं निर्दोष वक्षो हृदयं यस्य सः। चन्द्रस्तु सकलङ्कमध्य इत्येव भेदः । तवास्मासु सुखकरणं न चित्रम् । यस्मात् संमृक्षितोरुगुलमाक्षिकहृद्यवाचः संमृक्षितः संघातीकृतः उरुगुलो माक्षिकं मधु च । ते इव हृद्यवाक् येषां तादृशाः प्रियतराः सपक्षा बन्धवः शुचं तक्षन्ति नाम च्छादयन्ति खलु ।-आस्तृक्षिता इति ।वृक्षेः कतरि क्तः । नक्षत्रेति । 'अमिनक्षियजि-' इत्यादिना नक्षेनन् । वक्ष इति । ६६३ वक्ष रोषे संघात इत्येके। संघातीभवन्त्यस्थीन्यत्रेति असुन् । संमृ- क्षेति। ६६४ मृक्ष संघाते । म्रक्ष इत्येके । मृक्षेः कर्मणि कः। माक्षिकेति । "पिपीलिकेतिकहृदिकमक्षिकाद्यप्' इति भोजेन निपातिता मैक्षिका । तस्मात् 'तेन कृतम्' इत्यर्थे अण् । तक्षन्ति । ६६५ तक्ष त्वचने । तच्च संवरणं त्वचो ग्रहणं वा । ग्रहणमात्रे च द्रुमे । पक्षेत्वप्येके । तक्षेर्लट् । पक्षेति । पक्षेरच् ॥

सूर्क्ष्य त्वदीक्षा चिरकाङ्क्षिता नो वाङ्क्ष्याम्यमाङ्क्ष्यान्न तु नीचलोकान् ।
द्राक्षां जनो वाञ्छति नो फलानि घ्राङ्क्षाद्बहुध्वाङ्क्षाविचूषितानि ॥ ८५ ॥


१. माधवस्तु '’क्वुन् शिल्पिसंज्ञयोः' इत्यनेन क्वुनि मक्षिकारूपसिद्धिमाह.