पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ काव्यमाला। हे सूर्क्ष्य आदरणीय सखे अक्रूर, त्वदीक्षा नश्चिरकाङ्क्षिता । अहममाङ्क्ष्यान् काङ्क्षितु मयोग्यान् नीचलोकान् न तु वाङ्क्ष्यामि द्रष्टुमिच्छामि । जनो । द्राक्षां वाञ्छति । ध्राङ्क्ष्याभिर्घोरं शब्दायमानैर्बहुभिर्वा ध्वाङ्क्ष्यैर्विचूषितानि पीतरसानि फलानि नो वाञ्छति ॥--सू. क्ष्येंति । ६६६ सूर्क्ष आदरणे । ण्यत् । का्क्षितेति । ६६७ काक्षि ६६८ वाक्षि ६६९ माक्षि काङ्क्षायाम् । काङ्क्षेः कर्मणि क्तः । वाङ्क्षेर्लट्  : माङ्क्षेर्लट् । द्राक्षामिति । ६७० द्राक्षि ६७१ ध्राक्षि ६७२ ध्वाक्षि घोरवासिते च । चात् काङ्क्षायाम् लायाम् । द्राङ्क्षेराकारे द्राक्षा । द्राक्षेति यवादौ निपातनानलोपः । ध्राङ्क्षादितिः । ध्राङ्क्षेः शता । ध्वाङ्क्षेति । ध्वाङ्क्षेरच् । विचूषितानि । ६७३ चूष पाने । कर्मणि क्तः । तूषं तनोषि कमलस्य यथैव पूषा खेदं च मूषसि कृपारसरूषितात्मन् । शूषन्दृशोरमृत्तयूषमजूषकस्त्वं भूषस्यनूषमतिरीषभुजां प्रियः क्ष्माम् ॥ ८६ ॥ हे कृपारसरूषितात्मन् कृपातिशयेन रूषितो रञ्जितः आत्मा मनो यस्य तादृश हे अ- क्रूर, त्वं तूषं संतोषं तनोषि । पूषा सूर्यः कमलस्य यथा तथा। खेदं मूषसि हरसि च । खं क्षमा भूषसि अलंकरोषि । कीदृशस्त्वम् । तत्राह-दृशोः पानपात्रभूतयोरमृतयूषं घनीभूतामृतरसं शूषन्नुत्पादयन् । अजूषकोऽहिसकः । अनूषा अन्येषामपीडाकरा मति- र्यस्य सः । ईषभुजामुञ्छवृत्तीनां प्रियः ॥-तूषमिति । ६७४ तूष तुष्टौ । धञ् । पूषेति । ६७५ पूष वृद्धौ । 'श्वनुक्षन्-' इत्यादिना कानिनि नियातितः । मूषसि । ६७६ मूष स्तेये । लट् । रूषितेति । ६७७ लूष ६७८ रूष भाषायाम् । रूष आलेपन इत्येके । रूषेः कर्मणि क्तः । शूषन्निति । ६७९शूष प्रसवे । स चाभ्यनुज्ञा । 'या पीडा श्रवसापि शौति (१) महती (ता) मौत्सुक्यपीडासिकाम्' इत्यत्र सौतेरुपादानार्थप्रयोगात् उपादान- मपि प्रसवः अस्माच्छता । यूषमिति । ६८० यूष हिंसायाम् । ६८१ जूष च । यूष्यते हिस्यते पाकेनेति पनि यूषो घनीभूतः क्षीरादिः । अजूषकः । जूषेर्वुण्ल् । भूषसि । ६८२ भूष अलंकारे । लट् । अनूषेति । ६८३ ऊष रुजायाम् । पचाद्यचि नञ्समासः । ईषेति ६८४ ईष उञ्छे । घञ् ॥ इत्युक्तः सुरकाषिखाषिणमसावूचे जगच्छेषका- नित्यं ते जपते झषादिवपुषे रक्षश्चमूशाषिणे । केश्यादीन्वषणोत्सुकान्प्रशमते भूयोऽपि रोषिष्यते रेषोऽन्यान्भषतो नमोस्तु कमलाकोष्णस्तनं जोषते ॥ ८७ ।। १. 'वाशिते' इति पाठः,