पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् ।१३७ गच्छत् । कीदृशः । कुमार्गेषु अनन्नगच्छन् । शुभाध्वना एव वन्नसहाय एव गच्छन् । भृशोत्कण्ठितगोपिके हरौ प्रमन् भृशमुत्कण्ठिता गोपिका यस्मिंस्तस्मिन् । सोत्कण्ठस्मृतिमान् । कीदृशैरुन्मदैः । पापमुन्भिः पापस्य पालकैः । वुधहेड्भिः वुधानां बाधकैः ॥-अनन्निति । २६२ अठि गतौ । अस्मात् क्विपि संयोगान्तलोपे अन् । तस्मान्नञ्समासे नुट् । वन्निति । २६३ वठि एकचर्यायाम् । सा चासहायगमनम् । प्राग्वत् । क्विप् । प्रमन्निति । २६४ मठि २६५ कठि शोके । अत्र शोकः सोत्कण्ठस्मरणम् । उत्कण्ठामात्रे त्वकर्मकः । मण्ठेः प्राग्वत् क्विप् । संयोगान्तलोपश्च । उत्कण्ठितेति । कण्ठः कर्तरि क्तः। पापमुन्भिः । २६६ मुठि पालने । क्विप् । बुधहेड्भिः । २६७ हेठ विबाधायाम् । २६८ एठ च । हेठेः क्विप् । अनेठिताम् । एठेः कर्मणि क्तः। अहिण्डत । २६९ हिडि गत्यनादरयोः लड् ॥

प्रहुण्डितानैक्षत चारुकुण्डलान्प्रवण्डितार्थानविमण्डिताशयान् । स भण्डिलो भोजनृपालपिण्डभुक्प्रमुण्डितांस्तत्र जनानतुण्डकान् ३६॥ भण्डिलः स तत्र प्रहुण्डिताञ्जनानैक्षत् । भण्डिलो दूतः । प्रहुण्डितान् संघातीभूतान् । चारुकुण्डलान् चारूणि कुण्डलानि येषां तान् । प्रवण्डितार्थान् प्रवण्डिताः सम्यक् विभक्ता अर्थाः पुरुषार्था धनानि वा येषां तान् । अविमण्डिताशयान् । अविमण्डितोऽविभक्त आशयो येषां तान् । एकमनस्कानित्यर्थः । प्रमुण्डितान् अत्यन्तशुद्धान् । अतुण्डकान् अहिसकान् । पिण्डमन्नम् ॥--प्रहुण्डितानिति । २७० हुडि संघाते कर्तरि क्तः । कुण्डलेति । २७१ कुडि दाहे । 'मृदिमण्डिकुण्डिकन्दिभ्योऽलच्' इत्यलच् । प्रवण्डितेति । २७२ वडि विभाजने । २७३ मडि च । द्वौ वेष्टनेऽपीत्येके । वण्डेः कर्मणि क्तः । अविमण्डितेति । मण्डेः कर्मणि क्तः। भण्डिल इति । २७४ भडि परिभाषणे । तच्च परितो भाषणम् । सनिन्दवचनं । परिहास इत्येके । अस्मात् 'सलिकल्यनिभटिभण्डितण्डिभ्य इलच्' इतीलच् । पिण्डेति । २७५ पिडि संघाते । पचाद्यच् । प्रमुण्डितान् । २७६ मुडि मार्जने । शुद्धिन्यग्भावौ तत् । कतीरे क्तः । अतुण्डकान् । २७७ तुडि तोडने । दारणं हिंसनं वा तत् । अस्माण् ण्वुल् ॥

अभुण्डितोचण्डगतीनशण्डनान्कुमार्गवैतण्डिकपण्डितावृतान् । स तानकण्डान्दधिखण्डनादिकस्वधर्मसक्तान् गतहेडमानमत् ॥ ३७ ॥ स तान् गतहेडमानमत् । गतहेडं गतावज्ञं यथा तथा नमस्कृतवान् । कीदृशान् । अभुण्डितोचण्डगतीन् अस्वीकृतक्रूरव्यापारान् । अशण्डनान् न शण्डनं परिपीडा येषां तान् । कुमार्गवैतण्डिकपण्डितावृतान् असन्मार्गस्य वैतण्डिकाः खण्डनैकपरा ये पण्डितास्तैरावृतान् मिश्रान् । अकण्डान् मदरहितान् । दधिखण्डनादिकस्वधर्मसक्तान् दधिखण्डनादिके दधिमथनादिके स्वधर्मे सक्तान् ॥-अभुण्डितेति । २७८ भुडि वरणे । स्वीकारस्तत् । हरण इत्येके । कर्मणि क्तः । उच्चण्डेति । २७९ चडि कोपे । पचाद्यच् ।