पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३६ काव्यमाला ।

जहर्ष जञ्जातुजितस्थलैरसौ वृषैरतुञ्जैर्गजगञ्जिभिर्वृतम् । गर्जत्खरं गृञ्जितधेनुमोमुजद्वत्सोत्करं मुञ्जदजं वजन्व्रजम् ॥ ३३ ॥ असौ व्रजं वजञ्जहर्ष । वजन् प्राप्नुवन् । कीदृशं व्रजम् । वृषैर्वृतं व्याप्तम् । कीदृशैवृषैः । जञ्जातुजितस्थलैः जञ्जया परस्परयुद्धेन तुजितानि पीडितानि स्थलानि यौस्तैः । अतुञ्जैर्नराणामहिसकैः । गजगञ्जिभिर्गज इव शब्दायमानैः । कीदृशं व्रजम् । गर्जत्खरं गर्जन्तः शब्दायमानाः खरा यस्मिंस्तम् । गृञ्जितधेनुमोमुजद्वत्सोत्करं गृञ्जिताः हुंकाररवं कुर्वाणा धेनवो नवप्रसूता गावो यस्मिंस्तच्च । मोमुजतः पुनः पुनः शब्दायमाना वत्सोत्करा यस्मिंस्तच्च । मुञ्जदजं मुञ्जन्तो नदन्तोऽजाश्छागा यस्मिस्तं च ॥--जञ्जेति । जञ्जेः 'गुरोश्च-' इत्यकारः । तुजितेति । २४५ तुज हिंसायाम् । कर्मणि क्तः । अतुञ्जैः । २४६ तुजि पालने च । प्राणने च द्रुमे । अच् । गजेति । २४७ गज २४८ गजि २४९ गृज २५० गृजि २५१ मुज २५२ मुजि शब्दार्थाः । गज मदने च । मज मजि इत्यप्येके । शब्दायते माद्यति वेत्यर्थे गजेरच् । गञ्जीति । गजेः 'कर्तर्युपमाने' इति णिनिः । गर्जदिति । गृजेः शता । गृञ्जितेति । गृञ्जेः कर्तरि क्तः । मोमुजदिति । मुजेर्यङ्लुकि शता । मुञ्जदिति मुञ्जेः शता । वजन् । २५३ वज २५४ व्रज गतौ । वजेः शता । व्रजेः 'गोचरसंचर-' इत्यादिना घः ॥

मार्गात्स दृष्ट्वा हरिपादलाञ्छनं व्यवेष्टतोर्व्यां महनीयचेष्टितः । तत्केलिसंगोष्टितलोष्टमानमद्वने मरुद्धट्टितपोस्फुटद्द्रुमे ॥ ३४ ॥ मार्गात् स हरिपादलाञ्छनं दृष्ट्वोर्व्यां महनीयचेष्टितो व्यवेष्टत । मार्गात् मार्गमतिकान्तवान् । व्यवेष्टत विलुठितवात् । महनीयचेष्टितो महनीयं चेष्टितं व्यापारो यस्य सः। वने तत्केलिसंगोष्टितलोष्टमानमत् । तस्य भगवतः केल्या संगोष्टितं संघातीकृतं लोष्टमिष्टकाखण्डम् । कीदृशे वने । मरुद्धट्टीतपोस्फुटद्द्रुमे मरुद्धट्टिता वायुभिः कम्पिताः । अत एव पोस्फुटतः अत्यर्थं दलन्तो द्रुमा यस्मिंस्तस्मिन् ॥-मार्गादिति । २५५ अट्ट अतिक्रमहिंसनयोः । शाड्रन्ता उदात्ता अनुदात्तेतः । दोपधस्तोपधो वायम् । टोपधोऽपि द्रुमे । अस्मात् क्विपि संयोगान्तलोपः । व्यवेष्टत । २५६ वेष्ट विलुठने । अकर्मकः । लड् । चेष्टितेति । २५७ चेष्ट चेष्टायाम् । अस्मात् सिद्धभावे क्तः । गोष्टितेति । २५८ गोष्ट २५९ लोष्ट संघाते । गोष्टेर्णिजन्तात् कर्मणि क्तः । लोष्टमिति । पचाद्यच् । घट्टितेति । २६० घट्ट चलने । कर्तरि क्तः । पोस्फुटदिति । २६१ स्फुट विकसने । यङ्लुगन्तात् शता ॥

अनन्कुमार्गेषु शुभाध्वनैव वन्प्रमन्भृशोत्कण्ठितगोपिके हरौ । स पापमुन्भिर्बुधहेड्भिरुन्मदैरनेठितां क्ष्मां पुनरप्यहिण्डत ॥ ३५ ॥ स उन्मदैरनेठितां क्ष्मां पुनरप्यहिण्डत । उन्मदैरुद्भूतमदैरनेठितामपीडितामहिण्डता-