पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

द्वारे द्वारे धाम्नः पिण्डीभूता नवीनबिम्बाभाः ।
विदधतु विपुलां कीर्ति दिव्या लौहित्यसिद्धयो देव्यः ॥ १२४ ॥

मणिसदनस्यान्तरतो महनीये रत्नवेदिकामध्ये ।
बिन्दुमयचक्रमीडे पीठानामुपरि विरचितावासम् ॥ १२५ ॥

चक्राणां सकलानां प्रथममधःसीमफलकवास्तव्याः।
अणिमादिसिद्धयो मामवन्तु देवीप्रभास्वरूपिण्यः ॥ १२६ ॥

अणिमादिसिद्धिफलकस्योपरि हरिणाङ्कखण्डकृतचूडाः ।
भद्रं पक्ष्मलयन्तु ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ १२७ ॥

तस्योपरि मणिफलके तारुण्योत्तुङ्गपीनकुचभाराः ।
संक्षोभिणीप्रधाना भ्रान्तिं विद्रावयन्तु दश मुद्राः ॥ १२८ ॥

फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चके ।
दीव्यन्तु प्रकटाख्यास्तासां कर्त्री च भगवती त्रिपुरा ॥ १२९ ॥

तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः।
कामाकर्षण्याद्याः कलये देवी: कलाधरशिखण्डाः ॥ १३०॥

सर्वाशापरिपूरकचक्रेऽस्मिन्गुप्तयोगिनीसेव्या ।
त्रिपुरेशी मम दुरितं 1तुद्यात्कण्ठावलम्बिमणिहारा ॥ १३१ ॥

तस्योपरि मणिपीठे ताम्रास्भोरुहदलप्रभाशोणाः ।
ध्यायाम्यनङ्गकुसुमाप्रमुखा देवीश्च विधृतकूर्पासाः ॥ १३२ ॥
संक्षोभकारकेऽस्मिंश्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् ।
गोप्त्नी गुप्ततराख्या गोपायतु मां कृपार्द्रया दृष्टया ॥ १३३ ॥

संक्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणीरन्तः कलयामि यावैनोन्मत्ताः ॥ १३४ ॥

सौभाग्यदायकेऽस्मिंश्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च संप्रदायाभिधाः समस्ताः प्रमोदयन्त्वनिशम् ॥ १३५ ॥

मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये।
संततविरचितवासा: शक्ती: कलयामि सर्वसिद्धिमुखाः ॥१३६॥

१. 'तृप्यतु' क.