पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

तस्मिन्दिनेशपात्रे तरङ्गितामोदममृतमयमर्घ्य॑म् ।
चन्द्रकलात्मकममृतं सान्द्रीकुर्यादमन्दमानन्दम् ॥ १११ ॥

अमृते तस्मिन्नभितो विहरन्त्यो विविधमणितरणिभाजः ।
षोडशकलाः सुधांशोः शोकादुत्तारयन्तु मामनिशम् ॥ ११२ ॥

तत्रैव विहृतिभाजो धातृमुखानां च1 कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः शमयन्त्वखिला: कलाश्च संतापम् ॥११३॥

कीनाशवरुणकिन्नरराजदिगन्तेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ ११४ ॥

पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो 2भवन्तु भासा प्रदीपितजगन्ति ।। ११५ ॥

सदनस्यानलकोणे सततं प्रणमामि कुण्डमाग्नेयम् ।
तत्र स्थितं च वह्निं तरलशिखाजटिलमम्बिकाजनकम् ॥११६॥

तस्यासुरदिशि तादृशरत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शताङ्गं शतयोजनमुन्नतं भजे दिव्यम् ॥ ११७ ॥

तत्रैव दिशि निषण्णं तपनीयध्वजपरम्पराश्लिष्टम् ।
रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥ ११८॥

भवनस्य वायुभागे परिष्कृतो विविधवैजयन्तीभिः ।
रचयतु मुदं रथेन्द्रः सचिवेशान्या: समस्तवन्द्यायाः ॥ ११९॥

कुर्मोऽधिहृदयमनिशं क्रोडास्याया: शताकमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो रुचिरपलाकाप्रपञ्चकञ्चुकितम् ॥ १२० ॥

परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्य: ।
कुर्वन्तु रश्मिमालाकृतयः कुशलानि देवता निखिलाः ॥१२१॥

प्राग्द्वारस्य भवानीधाम्नः पार्श्वद्वयारचितवासे ।
मातङ्गी किटिमुख्यौ मणिसदने मनसि भावयामि चिरम्॥१२२॥

योजनयुगलाभोगा तत्क्रोशपरिणाह्यैव भित्त्या च ।
चिन्तामणिगृहभूमिर्जीयादाम्नायमयचतुर्द्वारा ॥ १२३ ॥

१. 'चकारपोशाना' ख. २. 'भवन्ति' क.