पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
काव्यमाला।

ज्योतिर्विच्छिवसनुशंकरसुती गीर्वाणसद्भाषया
चित्तालस्यनिवारणाय विदुषां बालैरपि प्रार्थिताम्
गञ्जीफाभिषखेलनक्रमविधेः पद्यामनिन्द्यामिमां
पद्यैः सद्गुणकाग्रणीर्गिरिधरः पूर्णी चकार स्फुटाम् ॥ ३१ ॥

इति गखीफाखेलनम् ।

तैलङ्गव्रजनाथविरचितं
मनोदूतम् ।
(सहृदयहृदयाहादनापरनामकम् ।)
सेटीकम् ।

 ब्रह्मादिदेवतावृन्दबन्दनीयपदाम्बुजः ।
 दूरीकरोतु हृदयजाड्यं मे जन्दनन्दनः ।।
 जयन्ति श्रीगुरोः पादनखचन्द्रमरीचयः।
 येर्निहत्य तमो गाढं खान्तं मे विशदीकृतम् ।।
 स्वयं कृते मनोदूतकाव्ये भव्य समासत्तः ।
 व्याख्या बालाववोधाय क्रियते मजुभाषिणी ।।
 भूयोभूयः प्रणम्याहं याचे बद्धाजलिर्बुवान् ।
 बालभाषितमित्येव क्षमध्वं चापलं मम ।।

अथ 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृत्तये कान्तार्स- मित्ततयोपदेशयुजे ॥ इत्याधुक्त काव्यफलं पश्यन्सहृदयहृदयाहादकैरद्भुतकरुणशान्तरसप्र- धानैः सहदयानां भगवद्भक्तिरसिकानां मनसि सथः सहजानन्दसमुल्लासप्रवर्ण मनोदूताख्यं काव्यं चिकीर्षुस्तस्य निर्विघ्नसमाप्तये शिष्टाचारपरिप्राप्तं स्वेष्टदेवतास्मरणगर्भ वस्तुनिर्देशा- त्मकभाशीर्वादात्मकं च भङ्गलमुपनिबध्नाति--

 दधद्वासः पीतं सजलजलदश्यामलरुचि-
 र्मुदा पूर्णो कुर्वन्नधरसुधया सन्मुरलिकाम् ।


'इदं हि सटीकं काममनेन तैलङ्गवजनाथामिधेयेन १८१४ (A.D. 1758) वैशमवत्सरे श्रीवृन्दाटयां निर्मितमिति मन्यसमाप्तिश्लोकतोऽवगम्यते. पुस्तकं चास्य अन्थस्यैक्रमेव २७ पत्रात्मकं राजगुरुवरश्रीदत्तभट्टानां सरखतीसदनत आसादि- तम्, अतस्तेषामुपकारं शिरसा बिभृमः,