आलस्योपहतः स्मरातुरमना दैवप्रमाणो धने
भीरुः कातरसंगतो बहुगुरुः पुत्रप्रियो मन्दधीः ।
निद्रालुर्बहुभीषणोऽतिमुखरः पानप्रियोऽहंकृतः
शुत्रोः पौरुषगायकः प्रतिवचोदाता च नो सेवकः ।। २८ ।।
सौन्दर्यैकनिधिर्महाकुलभवा मञ्जुस्वराह्लादिनी
भर्तुर्भक्तिपरायणा करुणया संतोषयन्ती जनम्
नानाधर्मकथाविचारचतुरा दाक्षिण्यभृल्लक्षणा
योग्या पुत्रवती महोदयगुणा पट्टाभिषेकोचिता ॥ २९ ॥
मानान्भोधेगस्त्यः कुलमदविपुलच्छेदभेदे कुठारः
स्वातन्त्र्यं ह्राससीमा मदनरसदशप्रेयसीसङ्गविघ्नः ।
दैत्या हीनोक्तिपाठमबलबलगुरुलाघवस्यैकबन्धुः
सेवा केयं जनानां परगुणमहिमायासभावैकहेतुः ॥ ३० ॥
सिक्तः सेवासुधामिः फलति नृपतरर्वाञ्छितैरर्थजातै-
दैवं हत्वा नितान्तं वितरति विविधाः संपदः संगतात्मा
प्रौढाहंकारवैरिक्षितिधरशिष(ख)रे हन्त वज्रायमाना
सद्यः प्रोत्साहयन्ती त्वहमहमिकया निन्दनीया न सेवा ॥३१॥
विज्ञानं नयकौशलं च शुचिता शूरत्वमन्तः क्षमा
सर्वोपाययथोचितप्रणयनं वक्तृत्वमन्तःसभम् ।
सत्यत्वं च परोपयोगि सकलं जीवादिकं यदशा-
तो सेवां मनसापि मा स्पृश सखे दुःखैकपानं महत् ॥ ३३ ॥
भूयो भूयो नमति शिरसा पादयोरीश्वराणां
वाञ्छन्नुच्चैः पदमधिफलं साधयन्नात्ममानम् ।
जीवं मुञ्चेच्छरशतहतो जीविकानीहमानः
प्रायो दुःखं सहति सुखिताहेतवे सेवकोऽज्ञः ॥ ३३ ॥
हीने तेन कुलेन लक्षणलवेनापृष्ठकाये तथा
पुण्यानामपि भाजनेन निपुणे नीतौ जने निर्गुणे ।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५९
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
नीतिधनदशतकम् ।