पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
शृङ्गारधनदशतकम् ।

वाप्यः किं व्यभिचारिणां न गणितः प्रायः पुरस्तादयं
 दीनाया निजवल्लभस्य विरहे यश्चक्षुषी चुम्बति ।। ६४
साहाय्याय मलीमसाः समुन्विताः प्रायश्चकोरीदृशा-
 मुत्कानामभिसारसाहसरसे गाढोऽन्धकारः सुहृत् ।
धन्यं कज्जलमुज्ज्वलं जिगमिषोरऽग्रेगमल्लोचना-
 संयम्य स्वयमात्मना सुमनसो नाजिघ्रतीदं कचः ।। ६५ ।।
नापेक्षैव विभूषणस्य सहजा यस्यास्ति गम्भीरता-
 सद्वृत्तं यदि पार्श्वतोऽपि सहजः कीदृग्वलिप्रक्रमः ।
मध्यस्थस्य च कोमलस्य विषये कुण्टो भवेदायुधं
 दृष्टान्तोऽत्र मनोभवेन कलितो नाभिः कुरङ्गीदृशः ।। ६६ ।।
रोहिण्याधरसंपदा मुखविधोरिष्टाश्चतस्रः कला
 बीजानीह निरूपितान्यतनुना हासद्रुमस्यादरात् ।
भारत्याः कठिनीलवा बटायितुं रीतीरुंदाराक्षरा
 राजन्ते सुतनोर्मनोरमतमास्ते राजदन्ताः पुरः ॥ ६७ ।।
सुप्ता सञ्जकगहराञ्चलमुखे दत्त्वा नरं वीटिका
 प्राप्त संप्रति तस्करेऽथ सहसा जातं कपाटे चटत् ।
रुद्धा वागथ निद्रया नयनयोरन्ते स्थितं लज्जया
 क्लीबै रोमभिरुत्थितं पतिरिति ज्ञात्वा पुनर्मीलितम् ।। ६८ ॥
सिद्धस्त्वं पुरुषोत्तमोऽसि विदिता सा सत्यभामा न किं
 वाचा बोधयितुं सखीभिरधिकं नापारिजातग्रहः ।
व्याख्याता स शुकः परं गिरि पटुः संतापचिन्तातति
 नूनं निर्जरदैवतप्रतिभटो भूत्वा समाश्वासय ॥ ६९ ॥
जानासि क्रममञ्जसा विरचय द्रागङ्गमङ्गं परि
 प्रेयो मोहनमद्य मण्डनविधौ प्रौढा नियुज्यादरात् ।
तुष्टे याचकमादरेण ददती तन्व्या सखी वारिता
 मुग्धे पूर्वमलंकुरुष्व कबरीमेतं ततो रञ्जय ।। ७० ॥