पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५३ बिइणकाव्यम् । कान्तापि तापयति यः कुपितो जनोऽयं येन प्रसादयति देव विचारयार्थम् ॥ ५० ॥ वित्ता प्रिया च वचनं कथितं निशम्य वातोद्धतेक सहसा कदली चकम्प । तूष्णींचकार रममाणनिरीक्ष्यमाणां ताम्बूलशोभितकरापि वराङ्गनाभिः ॥ ५१ ।। श्रेयो वरं मयि न जीवितनाथ नाथ त्वं किं परित्यजसि मामकृतापराधान् सूक्ष्मा च धर्मगतिरस्ति विचारय त्वं जीवामि किं रमण ते विरहान्मुहूर्तम् ॥ ५२ ॥ सौदामिनी भवति किं जलदे प्रवाते चास्तं गते शशिनि तिष्ठति चन्द्रिका किम् । हे जीवितेश रतिदायक कामराज जीवामि न क्षणमदर्शनतस्तवाहम् ।। ५३ ।। बाले त्वमेव शरणं मरणेऽपि भूया- न्मृत्युर्भविष्यति जनस्य च मादृशस्त्र । भूयाद्विपत्तिरिह राजसुतानिमित्ते धर्मस्तदेति सुहृदं हृदयं चकार ।। ५४ ॥ निर्वासनं स्वनगरात्वरपृष्ठयानं नाशं करस्य वधबन्धनकं समस्तम् । अङ्गीचकार कुसुमेषुनिपीडिताङ्गः काश्मीरको नृपसुतारमणानुगूढः ।। ५५ ।। १. एतत्पूर्वमियान्याठोऽपरपुस्तकेऽधिकं उपलभ्यते - "काव्यं कवेरिति निशम्य निरीक्ष्य चक्षुरर्थे विचार्य.... परि प्रतीतः । श्रीभारतीविषयवासंबिलासलीलां कान्तिं जगाम स नृपः क्षमये तत्त्व ।। पुत्री नृपस्य नरनाथमथ प्रणम्य प्रोवाच गद्गदवचः शणु ...... तत्त्वम् । विद्याधिको मम गुरुगुणवत्सु भाति तं वीक्षितुं गुणवतामपि चित्तवृत्तिः । भूपे गतेऽथ वदतीन्दुकलां सुभीतां कान्ते ममाप्युभयथा कुशलं दुरापम् । मृत्युस्त्वदीयविरहाद्यदि यामि देशं नाशस्तवात्र यदि वक्ति पिता तथैव ॥