पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। खेदं न याति दधति स्वजने न लज्जां ये स्त्रीरताः किल भवन्ति नरा विमूढाः । सत्यां सती परममूर्तिमतीव गङ्गां वामाङ्ग एव वहति त्वशिवः शिवोऽपि ।। ५६ ॥ अङ्गी विधाय स शिवं च शिवेवरं च काश्मीरकः शशिकला रमते तथैव । भूयः कविः कतिपयेषु दिनेषु दूती- वक्त्रेण तेन गदितश्च पुरोहितेन ॥ १७ ॥ अलमतिचपलत्वात्स्वममायोपमत्वा- त्परिणतिविरसत्वात्संगमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्त्वमालोकयाम- स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा के वा न सन्ति भुवि वारिधरावतंसा हंसावलीवलयिनो जलसंनिवेशाः। किं चातकः फलमवेक्ष्य स वज्रधारां पौरंदरीं कलयते नववारिधाराम् ॥ ५९ ॥ श्रुत्वा कवीन्द्रवचनं नृपपूज्यविप्रो राजान्तिकं पुनरगाच्छ्रुसर्ववृत्तः । संप्राप्य भूपमितरेषु जनेष्वसत्सु ह्यूचे मनोगतवचश्च पुरः पुरोधाः ॥ ६ ॥ श्रीवीरसिंह नृपवीर विपक्षवीर- मत्तेभसिंह नरसिंह नरेन्द्रसिंह । वैदेशिकः स्वकुललाञ्छनतां विधत्ते तद्वीक्ष्य किं क्षमसि किं श्रुतमेव नास्ति ।। ६१ ।। वंशार्चितेन कथिते वचने नृवीरो जज्वाल वह्निरिव वातविवृद्धवेगः आनीय तद्गृहसखीश्चरितं च पृष्ट्वा ताभ्यः समस्तमपि भूपतिराससाद ।। ६२ ।।