पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिहणकाव्यम् सुकोमला चन्द्रमुखी च बाला प्रियं वदन्ती मधुरा च वाणी ! कृशोदरी गौरविशालनेत्रा ददातु मे शं किल जन्मजन्मनि ।। ३७ ॥ पद्मानना चकितबालकुरङ्गनेत्रा मत्तेभकुम्भयुगलस्तनभारनम्रा । काश्मीरकेण किल संपुटित्ताभिधेन बोभुज्यते स्मररणे नरराजपुत्री ॥ ३८ ॥ चञ्चत्प्रवालरुचिरारुणदन्तवासा. दन्तप्रभाविजितहारकदम्बशोभा । संतुष्यते तदनु पीडितकेन नाम्ना कान्तेन कान्तिकरणेन नरेन्द्रपुत्री ॥ ३९ ॥ चूतप्रवालकरपल्लवकेलिरम्या. वामाङ्गना सुगतिनिर्जितराजहंसी। पद्मासनाद्यकरणैश्च मनोविनोदा संगम्यते सुकविना क्षितिपालपुत्री ॥ ४० ॥ उद्यन्मृगेन्द्रतनुमध्यरुषा परागी सर्वाङ्गदत्तसुमना सुभगा सुशीला सा सिद्धतामुपगता नरराजपुत्री स्त्रीनैपुणं सुकविना यदि शिक्षितत्वात् ।। ४१ ।। दोलागतेन करणेन कवीश्वरस्य सा रम्यते रतिकलाकुशलाः निशीथे। सौन्दर्यरूपगुणगौरवमत्र सर्वं तस्मै समर्पितमहो गुरुदक्षिणार्थम् ॥ ४२ ॥ उन्निद्रचम्पकविशुद्धसुवर्णवर्णा कर्णान्तगस्मरसरोरुहचारुनेत्रा. रंरम्यते सुरतनागरिकेण नाना श्रीविह्लणेन कविना नरपालपुत्री ॥ १३ ॥ नक गु०-१४