पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। शास्त्रोदितान्यनुदितानि च मोहनानि पश्यन्नहर्निशमतीव निगूढचेताः ॥ २९ ॥ प्राह प्रियां स कविरेव मम प्रियेति सा तं कविं कथयति स्म मम प्रियस्त्वम् । पृच्छाम्यहं यदि पुनः कथयोत्तरं मे त्वं चापि मे कथय नाथ कवीशमुख्य ॥ ३० अङ्गणं तदिदमुन्मदद्विपश्रेणिशोणितविहारिणो हरेः । उल्लसत्तरुणकेलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः ॥ ३१ ॥ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा प्रहृष्टा नलिनी न येन ॥ ३२ ॥ पूर्णेन्दुबिम्बसदृशं च नृपात्मजास्य मानम्य विद्रुमलतामिव चुम्बनाय । कामप्रियव्रतनिवेदनयाभिधाना मालिङ्गनं सपुलकं प्रथमं चकार ॥ ३३ ॥ नीवीनिबन्धनविधानविमोचनाय नाभिप्रदेशनिहितः कविना प्रकोष्ठः कन्दर्पमन्दिरनिधानहरः करोऽस्य रुद्धः स तस्कर इव क्षितिराजपुत्र्या ।। ३४ ॥ आलिङ्ग्य गाढमबलामुपनीय शय्या- मारोप्य वक्षसि रदेन निपीड्य चोष्ठम् सोऽङ्गुष्ठकेन चरणाप्रभवेन वस्त्र- माकृष्य चाकुलतया सुरतं चकार ॥ ३५ ॥ चन्द्रानना सुरतकेलिगृहीतवस्त्रा नेत्रे निरुध्य च करद्वितयेन तस्य आरोप्य मञ्जुशयने पुरुषायमाना सानन्दयत्कविवरं गुणसर्जनेन ।। ३६ ।।