पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिहण काव्यम् । १४५ मायाप्रपञ्चजगदर्णवभीतभीतः सिद्धोपदेशमिव धर्मपरश्च लोकः ॥ १३ ॥ पृष्ट्वा समस्तकुशलं कुलदेवताया आदिष्टवान्निजपुरोहितमस्य तृप्त्यै यद्रोचते सुकवये पुरतः प्रभूतं भोज्याम्बरादि विततार यथोपदिष्टम् ॥ १४ ॥ तस्मै विहस्य कविराजमथ क्षितीश- प्रीत्या सुताध्ययनकारककोविदार्थी । दत्त्वा निकाममुदिताय मनोरथश्रीः श्रीवीरसिंहनृपतिर्मुदमाससाद ॥ १५ ॥ स्नानानुलेपनमनोरमभोजनानि दिव्याम्बराणि बहुमानपुरःसराणि काश्मीरको कविवरोऽथ निशम्य रात्रौ प्रातः पुरोहितयुतो नृपतिं ददर्श ।। १६ ॥ सद्यः प्रबन्धविधिना गुरुणा कवित्वं यद्रम्यपद्यरचनामधुना कवीन्द्रः । विद्यापगागहनवासपयोनिधित्वं धीरं तुतोष स यथा न तथान्य एव ॥ १७ ॥ एवं विलोक्य लसितार्थपदं कवीन्द्र- मामन्त्र्य तत्र तनयां कवये निवेद्य । अध्यापय प्रमुदितो भगवन्निमां त्वं कृत्वा प्रसादमथ चन्द्रकलामुवाच ॥ १८॥ उन्निद्रबुद्धिकुसुमः कविशेखरोऽयं काश्मीरकः शशिकले कुरु पादपूजाम् । क्रीडां विहाय शुकसारिगता सखीनां शास्त्रं गृहाण वचनं कविबिह्लणस्य ॥ १९ ॥ १. कवये द्रविणं कवीश' इत्यपरपुस्तकस्थः पाठः,