पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सा वर्धते शशिकला शशिनः कलेव राज्ञो विशिष्टतनया ह्यधिकैकमान्या अल्पैर्दिनैः कतिपयैरपि राजधानी मागत्य वाक्यसुधया जनकं तुतोष ॥ ७॥ तां वीक्ष्य चारुवदनां चतुराननस्य वाचामिव प्रचुरचञ्चुरबुद्धिशीलाम् । बालामबालगुरुरूपवतीं नरेश- श्चिन्तां चकार तनयाध्ययनाय नित्यम् ॥ ८॥ राजीवपत्रनयना नरराजकन्या यल्लीलयापि वचनं मधुरं बभाषे तद्वीरसिंहनृपतेरमृतोपमानं चित्ते बभूव सुखदायि दिवा निशायाम् ॥ ९ ॥ इत्थं नृवीरनृपवीरनरेशचित्ते नित्यं चकार कविराजपदानि कन्या तातस्तदीयगुणगौरवगाढचित्त- श्चिन्तां चकार सुतरां गुणिनं ददर्श ॥ १० ॥ श्रीराजहंसनमितेन पुरोहितेन राज्ञे निवेद्य विजिताखिलतत्कथेन । काश्मीरकः कविरसौ गुणिनं दिदृक्षु- स्त्वामागतः क्षितिप बिह्लणनामधेयः ।। ११ ।। मुक्तेन्दुकुन्दकुसुमस्फटिकावादाता सर्वामरेन्द्रभुजगेन्द्रनरेन्द्रवन्द्या मन्त्रार्थतन्त्रजननी जननी श्रुतीनां श्रीशारदास्ति विषयं तत आगतोऽयम् ॥ १२ ॥ कृत्वा नतिं विषयपूर्वमथाशिषं तां जग्राह वीरनृपतिः कविराजतोऽपि