पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । अयेऽहं दुःखार्ता शरणमुपयातास्मि भवतः प्रणभ्य त्वां याचे हृदय करणीयं समुचितम् । श्रवश्चक्षुर्माणमभूतिकरणानां परवशं न भूया नो चेद्धा ध्रुवमिह हताहं द्रुपदजा ॥ १६२ ।। अये इति । श्रवः कर्णः । करणानामिन्द्रियाणाम् ।। गृहीत्वा प्रेमोपायनमथ विनीतेन भक्ता समाराध्यः खामी बत गरुडगामी मम विभुः । दयासिन्धुदीनोद्धरणधृतबुद्धिर्मदुदितं विशेषादेवासौ हृदि करुणया धास्यति हरिः ॥ १६३ ॥ गृहीत्वेति । प्रेमरूपायनम् ॥ इति स्वान्त वाक्यैनिजमभिमुखीकृत्य सरल स्वभावा नेत्राम्भः तिसततधारासुतनुः तदीयध्यानोत्थाप्रमदजनितोद्दामपुलका जगाद श्रीकान्तं प्रति परमदुःखं द्रुपदजा ॥ १६४ ।। इतीति । स्पष्टम् ॥ अथ स्वीयमनन्यानवार्थमसाधारणं दुःखं निवेदयन्ती भगवतः स्वरक्षणत्वरायै बहुधा संबोधयन्ती प्रार्थयते---- दयासिन्धो बन्धो निखिलजगतो यादवपते जगन्नाथ स्वामिन्व्रजजनविपन्नाशनपटो। बकोघातिन्वत्सासुरहर तृणावर्तशमन प्रलम्बारिष्टघ्न द्विपदलन केशिप्रमथन ॥ १६५।। दयासिन्धो इति । स्पष्टम् ॥ सुराधीशाखर्वप्रततमदगर्वप्रशमन प्रभो लक्ष्मीकान्त ब्रजजनसुधांशो सुररिपो व्रजाधीश श्रीशामृतमथन तार्क्ष्यधज जग- त्प्रभो विष्णो जिष्णुप्रियसख सखे गोकुलपते ॥ १६६ ॥ सुराधीशेति । स्पष्टम् ॥