पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् । मधुध्वंसिन्दैत्यान्तक नरहरे कैटभरिपो हयग्रीव श्रुत्युद्धरण सुरसंधैकशरण । हिरण्याक्षप्राणापहरणपटो शूकर धरा- धर स्वामिन्नागाधिपशयन कूर्माकृतिधर ॥ १६७ ।। मधुध्वंसिन्निति । स्पष्टम् ॥ कलिन्द्रोहिन्सत्यप्रिय नरकहच्छाल्वशमन क्षितिधुम्राजन्यप्रबलभरहारिन्नरवर । त्रिलोकीसदनाच्युतसुभग गोपीरमण भो परानन्दाम्भोधे निखिलजगदात्मन्सुरपते ॥ १६८ ॥ कलिद्रोहिन्निति । स्पटम् । एवं संवोधनैः स्वामिमुखीकृत्य स्वदुःखं निवेदयति---- अगाधापट्टाधाकुलहृदमसाधारणकृता पराधा गान्धाराधिपसहितराधासुतवशाः । तुदन्तीमे धाराधरतुलितकान्ते दय धरा- धरानेराधार प्लवधरण राधारमणं माम् ॥ १६९ ।। अगाधेति । अगाधा महती या आपाद्बाधा तया आकुलहृदं मां असाधारणः कृतोऽपराधो यैः । हे धाराधरतुलितकान्ते दय प्लवस्य पीतस्य धरण मत्स्यावतारे तथा करणात् उदासीना दीना मूदुहसितहीना नतमुखी निलीना खेष्वङ्गेष्वहह सुखहीना यदुपते । निहीना कीनाशाधिकभयकरैरन्धतनयः सभायामासीना द्रुपदतनया पीड्यत इह ॥ १७० ।। उदासीनेति । कीनाशो यमः ॥ पवीनामाघातैरशुभजविधीनामिव गणै- रहीनामुप्रैर्वा फणसमुदयैरेभिररिभिः बिभेमि श्रीदीनोद्धरण किल हीनाद्य भवता शिनीनामीशान श्वसिमि किल पीनाहिरिव याः ॥ १७१ ।। पवीनामिति । 'कुलिशं भिदुरं पविः । अशुभजानां विधीनां पापफलानाम् ॥

  1. Memoraret e